पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता १३९ शिष्टयकल्पने तवैव गौरवम् । एवंच तत्तत्कालीनं तत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः ॥ ११ ॥ प्रभा. भावात् न श्यामवत्ताप्रतीत्यापत्तिरिति भावः । वैशिष्ट्यस्यानित्यत्वपक्षमनूद्य दूषयति ॥ वैशिष्टयस्ये ति ॥ तवैवेति ॥ अभावाधिकरणयोरतिरिक्तवैशिट्याङ्गीकर्तुरेवेत्यर्थः ॥ गौरवमिति ॥ तथाच वैशिष्ट्यानन्त्यप्रयुक्तगौरवस्य तुल्यत्वेऽपि आतिरिक्तपदार्थकल्पनागौरवस्याधिक्यादिति भावः । नन्वतिरि- कवैशिष्टयानङ्गीकारे अभावाधिकरणयोः स्वरूपसंबन्धस्यैव वक्तव्यतया घटाधिकरणदेशेऽपि घटाभाव- रूपविषयस्याधिकरणात्मकस्वरूपसंबन्धस्य च सत्त्वात् घटाभाववद्भूतलमिति प्रतीत्यापत्तिस्तदवस्थैवेत्यत आह || पवंचेति ॥ वैशिष्टयस्यातिरिक्तत्वानभ्युपगमे चेत्यर्थः ॥ तत्तत्कालीनेति ॥ यस्मिन्काले यादृशभूतलादौ घटो नास्तीति प्रमा तत्कालविशिष्टतद्भूतलादिकं घटाद्यभावस्य संबन्ध इत्यर्थः ॥ तथाच तादृशकालविशेषस्य देशविशेषस्य वा तत्तद्वयकित्वेनैव संबन्धघटकता नतु निरुक्तरूपेण गौ- रवात् प्रयोजनाभावादिति भावः । नच तादृशकालविशेषविशिष्टाधिकरणस्वरूपसंबन्धस्य प्रत्यक्षकाल एवं सत्त्वेन पूर्वकालावृत्तितया ईदृशसन्निकर्षस्य कथं प्रत्यक्षकारणत्वं तस्य प्रत्यक्षकारणत्वोपपादनाय मञ्जूषा. नायः विनष्टश्यामरूपस्य तत्कालावच्छिन्नत्वानङ्गीकारात् द्वितीये किं लौकिकप्रत्यक्षात्मक उतालौकिकप्रत्य- क्षात्मकः । आये लौकिकप्रत्यक्षे विषयस्य कारणत्वान्न तद्वत्ताबुद्धिः अलौकिकप्रत्यक्षं तु इष्यत एव एवं तस्य प्रमात्वमपि प्रमात्वशरीरे कालानन्तर्भावादिति एवंच न तद्वत्ताबुद्धिरित्यस्य न तल्लौकिक- प्रत्यक्षमित्यर्थः । ननु यद्यभावस्य संबन्धान्तरं न स्वीक्रियते तर्हि तस्य कस्संबन्धः भूतलस्वरूपमिति चेत्तई घटवत्यपि भूतले घटाभावलौकिकचाक्षुषापत्तिः विषयस्य घटाभावस्य सत्त्वात् नच तदा न लौकिकसनिकर्ष इति वाच्यम् चक्षुत्संयुक्कानुयोगिकभूतलस्वरूपात्मकविशेषणताया अपि तल सत्त्वात् । नच घटलौकिकचाक्षुषस्य प्रतिबन्धकस्य सत्त्वान्न तदा घटामावचाक्षुषमिति वाच्यम् । घटलौकिकचा- क्षुषाभावदशायामेव तस्यापादनीयत्वात् नह्यसतोधर्म्यन्तरघटितसन्निकर्षानुभूयमानारोपजनकदोषयार्घटवति भूतले घटाभावलौकिकचाक्षुषमभ्युपगम्यते तान्त्रिकैः एवं तत्कालोत्पन्नस्य घटाभावोपनीतभानादेः प्रमावा. पत्तिः विशेषणविशेष्यसंबन्धानां प्रयाणामपि सत्त्वात् नच प्रमात्वस्य कालाघटितत्वादिष्यते एव तस्य प्रमात्वमिति वाच्यम् । इदानी घटाभाववद्भूतलमित्याकारकस्य घटाभावे एतत्कालावच्छिन्नत्वावगाहिनो ज्ञानस्य प्रमात्वापादनात् यद्यपि घटाभावे उपलक्षणविधया एतत्कालावच्छिन्नत्वावगाहिनस्तादृशज्ञानस्य प्रमात्वमिष्यत एव देशान्तरवृत्तित्वावच्छेदेन धटाभावस्य एतत्कालावच्छिन्नत्वाबाधात् । तथाहि एतत्का- दिनकरीयम्. घटाभावभूतलयोस्तत्स्वरूपसम्बन्धस्य च तत्र सत्त्वादत आह ॥ एवं चेति ॥ तत्तत्कालीनमिति ॥ घटाभाववद्भुतलमिति ज्ञानकालीनमित्यर्थः ॥ तत्तद्भूतलादिकमिति ॥ यत्र भूतले घटाभावबुद्धिस्त- तद्भूतलादिकमित्यर्थः ॥ तत्तभावानामिति ॥ यस्य यस्याभावस्य बुद्धिस्तस्य तस्येत्यर्थः । तथा च रामरुद्रीयम्. सम्बन्धत्वे वाधकमाह ) तथासतीति ॥ तत्तत्कालीनं तत्तद्भूतलादिकमित्यत यदा यदा भूतले घटाभावो वर्तते तत्कालीनमित्यर्थो न सम्भवति घटवत्तादशायामपि घटाभावे भूतला- वृत्तित्वप्रयोजकस्य दुर्वचत्वात् अतस्तत्तत्कालीनमित्यस्यार्थमाह ॥ घटाभाववदिति ॥ ज्ञानकालीनमित्यत्र मानपदं प्रमात्वेनाभिमतदानपरं तेन घठवत्तादशायामपि भ्रमात्मकघटाभाववत्त्वबुद्धिसम्भवेन तामादाय नोकदोषतादवस्थ्यमिति ध्येयम् । नन्वेवमभावाधिकरणयोः स्वरूपमेव सम्बन्ध इति सिद्धान्तो व्याइन्येतेत्या सां निराकुरुते ॥ तथाचेति ॥ स्वरूपविशेष इति ॥ तथा च स्वरूपसम्बन्ध इत्यस्यापि रूपस्य