पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता। प्रभा. भावस्वरूपस्य नित्यत्वेन सर्वदा सर्वदेशेषु वर्तमानस्वापत्त्या घटाधिकरणदेशेऽपि घटाभावप्रमापत्तः । नच यदा यस्मिन् देशे घटो न तिष्ठति तत्कालीनतद्देशीयघटाभावस्यैव संसर्गत्वाभ्युपगमात् न पूर्वो. तदोष इति वाच्यं अभावनिष्ठतद्देशीयत्वस्य तद्देशवृत्तित्वरूपत्वादन्यस्य दुर्वचतया तद्देशवृत्तित्वस्य संबन्ध. मजूषा. तत्र घटाभावलौकिकचाक्षुषे चक्षुस्संयुक्तवृत्तियः तनिष्टघटसंबन्धानवच्छेदककालविशिष्टतद्भूतलस्वरूपात्मकषि- शेषणतासंबन्धः तस्य कारणत्वं कदाचिदपि घटासंयुक्तं यद्भूतलं तत्र धटाभावप्रत्यक्षे चक्षुःसंयुक्तवृत्ति - तद्भूतलस्वरूपात्मकसंबन्धस्य कारणत्वमित्युच्यते । तदा प्रतियोगिभेदादधिकरणभेदादभावभेदाच्चक्षुस्संयुक्त विशेषणतायाः कारणताबाहुळ्यमिति तस्मादभावज्ञाने कालविशेषस्य संसर्गघटकतया भानाभ्युपगमो न यु- क्तिसहः । किन्तु भूतलस्वरूपात्मके संबन्धे भूतलानुयोगिकत्वावच्छेदेन यद्धटाभावप्रतियोगिकत्वं तत्र घट- कालो नावच्छेदकः किन्तु घटासमवधानकाल एव तस्य कालिकाव्याप्यवृत्तित्वादेवंच घटाभावप्रतियोगिक- स्वावाशष्टावशेषणतानुयोगिविशेष्यकत्वे सति घटाभावप्रकारकत्वं घटानावप्रमात्वमतो न घटकालावगा- हिन इदानी घटाभाववतलमिति ज्ञानस्य प्रमात्वापत्तिः एतत्कालावच्छिन्नत्वावशिष्टघटाभावप्रतियोगि- कत्वस्य तद्भूतलानुयोगिकत्वावच्छेदेन याधात् एवं द्रव्याधिकरणकाभावलौकिकचाक्षुषं प्रति चक्षुस्संयुक्तानु- योगिकत्वावाशष्टावशेषणतायाः प्रातयोगितासंबन्धेन कारणत्वं घटकाले च तद्भूतलानुयोगिकत्वविशिष्टान- रूपितप्रतियोगितायाः घटाभावे असत्वान्न तदा घटाभावलौकिकचाक्षुषापत्तिः एवंच घटकालस्य संबन्धघ- टकत्वादित्युत्तरप्रन्यस्य तद्भुतलानुयोगिकत्वावच्छिन्नघटाभावप्रतियोगिकत्वात्मकसंबन्धत्व घटकालस्य अन- वच्छेदकत्वाादेत्यर्थ इति अथवा घटाभाववद्भूलामिति ज्ञाने विशेषणतात्वेन विशेषणतासंसर्गः विशेषणतात्वं च अखण्डो धर्मः तच्च घटासमवधानकालभूतलस्वरूपोभयपर्याप्त घटाभावनिरूपितंच तेन रूपेण घटा- समवधानकालभूतलस्वरूपयोरुभयोरसंसर्गमयदया भानम् । एवंच विशेषणतात्वपर्याप्यधिकरणकदशघटा- समवधानकालनाशान्न घटकाले घटाभावबुद्धेः प्रमात्वं घटाभावलौकिकप्रत्यक्षापत्तिवा तादृशविशेषणता- त्वविशिष्टत्वसंसर्गकत्वं घटज्ञानाभावकार्यतावच्छेदकामिति न तस्य कार्यकारणभावानन्त्यं बहुवारं घटसं- युक्तवियुक्ते भूतले विनष्टे पश्चायद्धटाभावज्ञानं तत्र विशेषणतात्वेन आन्तराळिकानां सर्वेषामपि काला- नामसति नियामकेऽभ्युपगम्यत एव संसर्गतया भानं संसर्गविषयताबाहुळ्येऽपि संसर्गतावच्छेदकीभूत- विशेषणतात्वविषयता एकैव द्रव्या धकरणकाभावलौकिकचाक्षुषं प्रति चक्षुस्संयुक्तानुयोगिकविशेषणता. त्वविशिष्टस्य प्रतियोगितासंबन्धन कारणता कल्प्यते । इत्थंच घटाभावनिरूपितत्वेन रूपेण विशेषणतात्वं कदाचिद्धटसमवहितं यद्भूतलं तत्र घटासमवधानकालान्तभावेण पर्याप्तम् । यत्तु कदाचिदपि न सम- वधीयते तत्र संभावितसर्वकालान्तर्भावेण कालानन्तभावणव वा पर्याप्तं घटाभावनिरूपितत्वेनाकारण तु घटादिस्वरूप एवं पर्याप्तं न घटस्वरूपेऽपि । उपाध्यायमतानुसरणेतु घटाभावप्रतियोगिकत्वमाप घटाभाव- विशिष्टयुद्धौ संबन्धमयादयः भासते । घटाभावप्रतियोगिकत्वं च कदाचिद्धटसंयुक्ते भूतले तदस- मवधानकालान्तर्भावेण पर्याप्तं कदाचिदपि तदसंयुक्तभूतले तु संभावितसर्वकालान्तर्भावेण कालानन्त- भर्भावणैव वा पर्याप्त इति रीत्या सर्वदोषवारणम् । विशेषणतात्वस्य घटाभावनिरूपितत्वंतु नैतन्मते आ- वश्यकं विशेषणतात्वं तु स्वरूपत्वापरपययं सर्वमतेऽपि आवश्यकमेव तस्यैव विशिष्टबुद्धिसंसर्गताव- च्छेदकत्वात् सन्निकर्षनिष्ठकारणतावच्छेदकत्वाञ्च । एवं वैशिष्ट्यातिरिक्तवादिमते संसर्गतावच्छेदकं विशेषणतात्व. मावश्यकमेवेति बोध्यम् । एवंच घटकालस्य संयन्धाघटकत्वादित्युत्तरग्रन्थोऽपि साधु सङ्गच्छते । तत्तत्काली- नतत्तद्भूतलादिकमित्यस्य तत्तत्कालतत्तद्भूतलादिकोभयमित्यर्थोऽवसेयः। ममतु प्रतिभाति सामयिकाभान- स्थले तदभावानरूपित्तविशेषणतात्वं तदभावप्रतियोगिकत्वमेव तत्तद्भूतलानुयोगिकत्वावच्छेदेन तत्तत्काल एव पर्याप्तमिति स्वीकमुचितं आवश्यकत्वात् तत्तएव सर्वदोषपरिहाराच व्याप्यवृत्त्यभावस्थलेतु अन- न्तकालापेक्षया लाघवेन तत्तदधिकरणस्वरूप एव तत्पर्याप्तमिति सर्व समन्जसम् । अत्र केचिदाचक्षते