पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः ॥ ११ ॥ समवायं दर्शयति ॥ घटादीनामिति ॥ अवयवावयविनोर्जातिव्यक्त्योर्गुणगु- णिनोः क्रियाक्रियावतोनित्यद्रव्यविशेषयोश्च यः सम्बन्धः स समवायः, समवायत्वं नित्यसम्बन्धत्वम् । प्रमाणं तु गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसम्बन्ध- प्रभा. इत्याहुः । तन्न नित्यज्ञानस्येश्वरनिष्ठभेदानुमापकत्वं न ज्ञानत्वेग व्यभिचारित्वात् न नित्यत्वविशिष्टज्ञा- नत्वेन तद्वयक्तित्वेन वा सामान्याश्रयस्य सामान्यरूपेण भेदसाधकत्वनियमात् नित्यज्ञानत्वस्य नित्यत्वघटित- खेनोपाधिरूपतया तेन रूपेण तब्यक्तित्वेन वा व्यावर्तकत्वासंभवात् । नच स्वसमानाधिकरणेश्वरत्व- संबन्धेन ज्ञानत्वावच्छिन्नमेव व्यावर्तकम स्त्विति वाच्यम् । तादृशस्य संयन्धत्वे प्रमाणाभावादन्यथा परमाणुगतैकत्वमादाय स्वसमानाधिकरणतादृशैकत्ववत्त्वसंबन्धेन सत्तारूपलिङ्गेनैव परमाण्वन्तरभेदसाधन- संभवे विशेषासिद्धिप्रसंगात् तस्माद्यावर्तकतया ईश्वरे विशेषाङ्गीकार आवश्यकः । आकाशस्य शब्दात्म- कलिनेन व्यावृत्तिसंभवेऽपि कनत्वादीनां बहुनां शब्दकारणतावच्छेदकत्वे गौरवात् लाघवाच्छब्दकारण- तावच्छेदकतयाऽऽकाशे विशेषस्वीकार आवश्यक इति । नवर्वानास्तु विशेषे मानाभावः विशेषाङ्गीक- मते स्वतोव्यावृत्ततया यथा विशेषाणां सिद्धिः तथा नित्यद्रव्याणामपि स्वतोव्यवृत्ततया सिद्धिसंभवादि- स्याहुः । तन्न ईश्वराकाशयोरुक्तरीत्या विशेषसिद्धरावश्यकत्वादिति ॥ १० ॥ मूले घटादीनां कपालादावित्पन्न घटादिपदमवयविमात्रपरं कपालादिपदमवयवमात्रपरमित्यभिनाये- णार्थमाह ॥ अवयवावयविनोरिति ॥ जातेश्चेत्यत्र चशब्देन मूचितमर्थमाह ॥ नित्यद्रव्यविशे- षयोरिति ॥ ननु मूलस्थसमवायशब्देनोपस्थितस्य समवायत्वात्मकसमवायलक्षणस्यकव्यक्तिकत्वेन जा- मजूपा. मचायात् एतद्विशेषघटान्यतरत्वात् इत्यनुमितिविशष्यतामादायासंभवायत्तेः स्वाविषयकप्रतातिविषयस्वस- मानाधिकरणमात्रवृत्तिभिन्नलिङ्गजन्यस्वार्थकत्वे घटादा तादृशानुमितेरप्रसिद्धः तत्र घटत्वादेस्तत्तद्धटाविषयक- घटान्तरविषयकप्रतीतिविषयत्वेऽपि तत्तवटासमानाधिकरणेतरघटान्तरवृत्तित्वेऽपि च तद्धटेतरयावद्दव्यप्रतियो- गिकभेदसाधकत्वाभावात् एतत्कपालसमवायादेस्तत्तद्धटासनानाधिकरणमात्रवृत्तित्वादित्यास्तां विस्तरः । त- स्माद्विशेषेषु परस्परभेदानामतिरस्वभिन्नलिन कदापि न जन्यत इत्यभिप्रायेणेदं लक्षणम् । अभिनायमूलं मृग्यम् ॥ 11 नित्यसंबन्धत्वमिति ॥ नित्यत्वं वक्ष्यते संबन्धत्वं विशिष्टप्रतीतिनियामकत्वं तच्छ प्रकारत्नविशे- व्यत्वान्यविषयताश्रयत्वं नच निर्विकल्पकीयविषयतामादाय घटत्वादावतिव्याप्तिरिति वाच्यं किंचि- दिनकरीयम्. घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च सम्बन्ध इति मूलम् । तत्र घटपद. कपालपदे अवयव्यवश्वपरे इत्याह ॥ अवयवावयविनोरिति ॥ जातेश्चेति चकारेण नित्यद्रव्ये. घु विशेषसम्बन्धः समुच्चीयत इत्याह ॥ नित्यद्रव्यविशेषयोरिति ॥ समवायलक्षणमाह । नित्यसम्बन्धत्वमिति ॥ सम्बन्धश्चात्र सम्बन्धिभिन्नो ग्राहस्तेन नित्याभावादिस्वरूपसम्बन्धे ना. रामरुद्रीयम्. घटपदकपालपदे इति ॥ घटादिकपालादिपदे इत्यर्थः ॥ नित्यद्रव्यविशेषयोः सम्बन्धस्य मूले समवायत्वानुक्त्या मूलस्य न्यूनत्वमित्याशङ्कां परिहरति ॥ जातेश्चेतीति ॥ ननु नित्य सम्बन्धत्वस्य समवायलक्षणत्वे द्रव्यत्वाभावादीनां स्वात्मकस्वरूपसम्बन्धेऽत्तिव्याप्तिरित्याशङ्कां परिहरति ॥ सम्बन्ध- भेति । सम्बन्धिभिन्न इति ॥ तथान सम्बन्धप्रतियोग्य नुयोगिभिन्नत्वे सति नित्यत्वे सति सम्ब-