पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १२९ प्रभा. माय मूलविरोधाङ्गीकारस्य दासीपरिपालनाय पत्नीपरित्यागाङ्गीकारतुल्यतया तत्रापीटापत्तेः वक्तुमशक्यत्वा- त् स्वविशेष्यकत्वविशेषणाभावेऽपि स्वभिन्नलिङ्गजन्यानुमितिनिरूपितस्वसजातीयभेदनिष्ठविधेयतानिरूपितो- द्देश्यत्वसंबन्धेन स्वविशिष्टं यद्यत् स्वं तत्तद्भेदकूटवत्त्वमिति लक्षणसंभवे तन प्रतियोगिकोटौ स्वपदार्थ- स्यैव विशेषणतया निवेशात् । इतरेषां तु संसर्गतया निवेशाचोकलाघवसंभवेन स्वविशेष्यकत्ववि- शेषणस्य प्रयोजनलेशाभावात् तद्धटितलक्षणकरणस्यान्याय्यत्वादिति दिक् । लाघवालक्षणान्तरमाह ।। मूले नित्यद्रव्यवृत्तिरिति ॥ निलद्रव्यवृत्तिरेवेत्यर्थः । अनित्यगव्यावृत्तिरिति यावत् । यद्यपि नित्य- द्रव्यगतैकत्वपरिमाणादेरपि अनित्यद्रव्यावृत्तित्वात् अतिव्याप्तं तथापि अनित्वद्रव्यवृत्त्यवृत्तिपदार्थविभा- जकोपाधिमत्त्वस्य तदर्थत्वेनोक्तदोषाभावात् अत एव नित्यद्रव्यवृत्तिरिति विशेषाणां स्थानकथनं नतु लक्षणप्रविष्टं प्रयोजनाभावादिति केषांचिन्मूलाभिप्रायवर्णनमपास्तम् । एतावता प्रबन्धेन नित्यद्रव्येषु दि. शेषसिद्धौ तादृशविशेषेणैव तादृशनित्यद्रव्यवृत्तिगुणक्रियाध्वंसादेरपि व्यावृत्तिसंभवात् न तेष्वपि विशेषाङ्गी- कार आवश्यक इति हृदयम् । अपरेतु ईश्वराकाशयोनित्यज्ञानशब्दाभ्यां व्यावृत्तेस्संभवान्न तत्र विशेष मजूषा- सिद्धिरित्येतावतैव अनवस्थानिरासात् सति व्याप्त्यादिज्ञाने जायमानानुमितिनं वार्यते परस्परभेद- स्म धर्मिप्राहकमानेनैव सिद्धत्वान्न तदनुमितिरिति वेदस्तु धार्मिप्राहकमानेनैव तत्सिद्धिः तथापि त. द्विस्मृत्या विशेषमानस्मृत्या तदनुमितिर्न शक्यते वारयितु सिसाधयिषयाच कदाचिदनभितिस्स्यात्के- न सा वारणी या प्राथमिकभेदसिद्धिस्तु धर्मिप्राहकमानेनैव न स्वेतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनेतद्वि- शेषादित्यनुमानेन पूर्वोकदोषात उत्तरकालंतु न निवारयामः तस्मादस्त्येव तेषां परस्परभेदानुमितिरत एव विशेषान्तरापेक्षा नास्तीत्येवोक्तं नतु विशेषान्तरं नास्तीति यदपेक्षया विशेषो नास्तीत्यत्रापि विशेषा- न्तरापेक्षा नास्तीत्यर्थः । अथैवमपि तत्तदवयवभेदात्परस्परं भेद इति प्रन्थस्वरसविरोधः । घटादिषु घटत्वादिहेतुकानुमितिमादाथैवातिव्याप्तेवारणीयत्वात् तत्तदवयवघटितहेतोस्तत्तद्धटादवृत्तिसमानाधिकरण- मात्रवृत्तित्वादिति चेन्नायमप्यस्ति विरोधः न ह्ययं प्रन्थो यथोपदार्शतस्य महादेवलक्षणस्य घटादाव. तिव्याप्तिवारणाय प्रवृत्तः येन विरोधस्स्यात् किंतु परमाणुषु व्यावर्तकतया विशेषा अवश्यमभ्युपेयाः ३. ति वदिष्यन्विश्वनाथः तर्हि घटादीनां के व्यावर्तका इति जिज्ञासायां सन्ति घटादीनां व्यावर्तका इ. ति दर्शयति ।। तत्तदवयवभेदादिति ॥ नैतावता घटादीनां तत्तदवयवातिरिक्तव्यावर्तकानां निरास। स्व- तएव व्यावृत्त इति। धार्मिमाहकमानातिरिक्तप्रमाणानपेक्षप्राथमिकसिद्धिविषयपरस्परभेदक इत्यर्थः । तद- नुगुणं चेदं लक्षणं यथोपवार्णितविशेषणविशिष्टालिङ्गजन्या हि सजातीयभेदानुमितिः प्राथमिकी भवि तुमर्हति घटादिषु प्रथममेव घटत्वादिना पटादिभेदानुमितेः नतूक्तविशेषणरहितलिजन्या तथाहि स्वनि- बस्वरहितं स्वमेव तेनच विशेषान्तरभेदानुमितिः एतद्विशेषे विशेषान्तरभेदसिद्धयानव्यातिप्रादौ सति स्यादेवं तत्स्थानाभिषिक्तस्वाविषयकप्रतीतिविषयत्वशून्य-एतद्विशेषत्वादिकतिपयलिएकाविशेषान्तरभेदानुमि. तिरपि तथा घटत्वादिलिङ्गकपटादिभेदानुमितिस्तु घटव्यत्तयन्तरगृहीतया व्याप्त्या एतद्धटव्यात प्रथमभेद भवितुमर्हतीति सर्वमनवयं परंतु एतद्विशेषो जलपरमाणुवृत्तिविशेषाद्भिन्नः पृथिव्यनुयोगिकसमवायाज्जलसमवे सत्वाभावादित्यनुमितिविशेष्यतामादायासंभवो दुारः तादृशंलिङ्गस्य एतद्विशेषाविषयकप्रतीतिविषयत्वादत- द्विशेषसमानाधिकरणेतरघटत्वादिवृत्तित्वाञ्च किन्त्वेवं रीत्या तत्तदवयवभेदादित्यादिग्रन्थो यथोक्कलक्षण: स्प घटादायतिव्याप्तिवारणार्थकतयापि योजयितुं शक्यः अयं घटः पटाद्भिद्यते कपालसमवायात्तन्त्वस- मवेतत्वादित्यायनुमितिविशेष्यतामादायापि तत्रातिव्याप्तिधारणसंभवात् कपालसमवायादेरप्येतद्भटाविष. यकप्रतीतिविषयलादेतद्धटसमानाधिकरणेतरघटान्तरवृत्तित्वाच्च तस्मादसंभवग्रस्तभेवेदं लक्षणं । यतूक्तं के- नचित्स्वसजातीयभेदपदस्य स्वेतरस्वसजातीययावत्प्रतियोगिकभेदपरत्वानोकानुमितिमादायासंभव इति तन्न बारु स्वभिन्नलिङ्गजन्यत्वस्य यथाश्रुतार्थपरत्वे एतद्विशेषो विशेषान्तरेभ्यो भिद्यते एतत्परमाण्वनुयोगिकमर 17 -