पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ करिकांवला प्रभा. न्तरप्रतियोगिकभेदनिष्ठविधेयत्वयोः निरूप्यनिरूपकभावापनत्वेन तादृशोद्देश्यकत्व विधेयकत्वयोरवच्छेद्याव- च्छेदकभाव सत्त्वेन तादृशोद्देश्यकत्वादिघटितत्रितयसंबन्धेन निशेषस्यानुमितिसंवन्धत्वात् । नच खभिन्न- त्वोपलक्षितलिङ्गशियकल्याप्तिप्रकारकज्ञानत्वात्रच्छिन जनकतानिरूपितानुमितिनिष्टजन्यतावच्छेदकीभूतताह- शोद्देश्यकत्व विधेयकत्वयोरेव संसर्गत्वाकारात् नासंभवप्रसक्तिः । उक्तसमूहालम्बनात्मकानुमितिनिरूपित. विशेषनिष्ठोद्देश्यताकत्वविशेषान्तरप्रतियोगिकभेदनिविधेयताकत्वयोनिरुक्तव्याप्तिज्ञानजन्यतावच्छेदकत्त्वाभा. वात् घटानिष्टोद्देश्यताकत्वविशेषान्तरप्रतियोगिकभेदनिष्टविधेयताकत्वयोरेव तादृशजन्यतावच्छेदकत्वात् । त- याच विशेषस्य तादृशजन्यतावच्छेदकत्वोपलक्षितावच्छेद्यावच्छेदकभावापन्नस्वोद्देश्यकत्वस्वसजातीयभेदवि- धेयकत्वघटितत्रितयसंबन्धेनानुमितिसंबद्धत्वाभावादिति वाच्यम् । तथासति तादृशजन्यतावच्छेदकत्वोप- लक्षितावच्छेद्यावच्छेदकभावापनस्वोद्देश्यकत्वस्वसजातीयभेदविधेयकत्वामयसम्बन्धेनानुमितिसंबद्धं यद्यत्स्वं तत्तद्भेदकूटवत्त्वस्थव लक्षणत्वसंभवे स्वभिन्नलिङ्गजन्यत्वस्य संबन्धघटकत्वानुपपत्तेः । नचेष्टापत्तिः स्व. भिन्नलिङ्गजन्यत्वस्य मूलस्थैवकारप्रतिपाद्यत्वेन तद्वैयध्ये मूलविरोधापत्तेः मूलानुक्त स्वविशेष्यकत्वपरिपाल- - लसंयोगजन्य त्वादेवा तत्र तदितरयावयक्तिप्रतियोगिकभेदसाधकत्वसंभवात् तदितरयावयक्तिप्रतियोगिकभेदो नाम तदितरत्वावच्छिन्न प्रतियोगिताकै कभदः तत्तद्भेदकूटो वेत्यन्य देतत् । एवंचात्र यदि प्रतियोगिनि- विष्टं स्वत्वं तदा घटादिकमेव तादृशं व यदि खनुयोमिनिविष्टं तदा स्वमेतद्विशेषः तद्भिनलिङ्गं घटत्वादि तनन्या स्वसमानाधिकरणावृत्तिभदविधयिका घट इतरन्यो भिद्यत इत्याद्यनुमितिस्तावशेष्यभिन्नत्वस्य विशेष सत्त्वालक्षणसङ्गतिः यदिचवं विशेषो द्रव्यभिन्नो गुणशून्यत्वादित्यनुमितिविषयाभूतभेदस्यापि विशेषसमाना- धिकरणरूपाद्यात्मकपदार्थान्तरवृत्तितया तत एव तादृशानुमितिविषयत्वमादाय प्रसक्तदोषवारणसंभवात्स्व- समानजातीयत्वनिवेशयथ्य । अपिच एतद्विशेषेतरभेदे साध्ये न हेतूदुर्भिक्षं समवेतत्वे सति सदन्यत्वे सति एतत्परमाणुमिन्नासमवतत्वादहेतुत्व संभवारिकाचविशेषणशिष्टयाघटित्तस्य च रूपादौ सर्वत्र दुर्लभ- त्वादिति भाव्यते तदा भेदे स्वसमानाधिकरणपदार्थान्तरावृत्तित्वं परिलज्य लिले स्वसमानाधिकरणमा- त्रतिभिन्नत्वं देय तथाहि गगनानुयोगिक समवायस्तद्विशेषसमानाधिकरणमात्रवृत्तिरेव तद्विशेषस्यापि तद्विशे- घसमानाधिकरणत्वानपायादिति न तलिङ्ग कानुमितिमादायासंभवः घटादौतु तत्तद्धटसमानाधिकरणमात्र- त्तिभिन्नं यद्धटस्वादि तजन्या या स्वसजातीयपादिप्रतियोगिकभेदानुभितिस्तद्विशेष्यत्वान्नातिव्याप्तिः। ए. वच गुणशून्यत्वस्य तत्तद्विषसमानाधिकरणेतरवृत्तित्वात्तदेतुकद्रव्यभेदानुमितिमादायासंभववारणाय स्वसजा- तोयत्वविशेषणसार्थक्यं । अयं सति एतद्विशेषतद्विशेषो विशेषान्तराद्भिद्यते एतराद्विशेषतद्विशेषान्यतर- स्वादित्यनुमितिविशेष्यतामादायासंभववारणाय स्वतराविशेष्यकार्य के स्वविशयकपदमावश्यकमेव तादृशानु. मितेस्तत्तविशेषेतरविशेषान्तरविशेष्यकत्वान्न दोष इति चेन्न स्वभिनेत्यस्य स्वाविषयकप्रतीतिविषयेत्या यकत्वात् अन्यथा स्वेतराविशेप्यकत्वस्यानुमितिविशेषणत्वेऽप्येतद्विशेषो विशेषान्तराद्भिन्नः एतद्विशेषतद्वि- शेषान्यतरत्वात् इत्यनुभितिविशे यतामादायासंभवस्य दुरित्वात् तथाच स्वसमानाधिकरणमात्रवृत्तिभिन्न- स्वाविषयकप्रतीतिविषयलिङ्गजन्यस्वसजातीयभेदानुमित्यविशेष्यत्वं पर्यवसन्न एतद्विशेषस्य एतद्विशेषत्व- स्य एतत्परमाणुसमवंतत्वादेश्च एतद्विशेषस्वरूपानतिरिक्ततया नेतद्विशेषाविषयकप्रतीतिविषयत्वं एतद्धि- शेषतद्विशेषान्यतरत्वादेरेतद्विशेषातिरिक्तत्वेऽप्येतद्विशेषपीटतत्वान्न तदविषयकप्रतीतिविषयत्वं एतत्परमा• पवनुयोगिकसमवायादेवताद्वशेषाविषयकप्रतातिविषयत्वेऽपि न तत्समानाधिकरणमात्रवृत्तिभिन्नत्वं गुणशून्य- स्वादिहेतोस्तादृशत्पेऽपि न तत्साध्यभेदस्य स्वसजातीय प्रतियोगिकत्व मिति न कोऽपि दोषा तस्मात्स्वविशेष्य. कंपदं प्रामादिकमेवेत्याचक्षते । अथवर त्या विशेषेषु परस्परभेदविषयकाजुमितेरस्वीकारे विशेषान्तरापेक्षा नास्तीति मुक्तावलीअन्यावरोध इति चेन्नासति विरोधः । नांह तेन प्रन्थेन विशेषाणां व्यावर्तकान्त- रेण परस्परभेदानुमितिरेव नास्तीत्युच्यते येन विरोधस्त्यात किंतु व्यावर्तकान्तरमन्तरेणापि परस्परभेद- -