पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. स्वं तत्तद्वयक्तिभेदकूटवत्त्वस्यैव लक्षणत्वसंभवात् तत्र प्रतियोगिकोटावनुमितेरेव विशेषणतया स्वभिन्न- लिङ्गजन्यत्वादीनां संबन्धतया निवेशनातिलाधवमिति वाच्यम् । तथासति विशेषो द्रव्याद्भिन्नः निर्गु- णत्वात् घटो विशेषान्तराद्भिन्नः घटत्वादित्यादिस्थलीयसमूहालम्बनात्मकपरामर्शजन्य समूहालम्बनात्मका- नुमितिमादाय विशेषस्यापि निरुक्तत्रितयसंबन्धनानुमितिसंबन्धत्वात् तत्तद्भेदकूटघटितलक्षणस्यासंभवा. पत्तेः । नचावच्छेद्यावच्छेदकभावापन्नस्वोद्देश्यकत्वस्वसजातीयभेदविधेयकत्वयोरेव संसर्गत्वसंभवात् नो- कासंभवः यादृशोद्देश्यत्वविधेयत्वयोनिरूप्यनिरूपकभावः तादृशोद्देश्यकत्वविधेयकत्वयोरेवावच्छेद्यावच्छेदक- भावस्य सर्वमतसिद्धतयोक्तसमूहालम्बनात्मकानुमितिनिरूपितविशेषनिष्ठोद्देश्यत्वविशेषान्तरप्रतियोगिकभेद- निष्टविधेयत्वयोः निरूप्यनिरूपकभावाभावेन तादृशोद्देश्यकत्वविधेयकत्वयोरपि मुतरामवच्छेद्यावच्छेदक- भावाप्रसक्त्या तादृशोद्देश्यक्रत्वविधेयकत्वघटितत्रितयसंबन्धेन विशेषस्यानुमितिसंवद्धत्वाभावादिति वाच्यं एवमप्ययं विशेषः तद्विशेषाद्भिन्नः तादात्म्येनतद्विशेषातू घटो विशेषान्तराद्भिन्नः गन्धववादित्यादिस्थ- लीयसमूहालम्बनात्मकानुमितिमादायासंभवस्य दुरित्वात् तादृशानुमितिनिरूपितविशेषनिष्ठोद्देश्यत्वविशेषा- मञ्जूषा- केचित् स्वेतराविशेष्यकत्वस्य अनुभितिविशेषणत्वेऽपि स्वेतरवृत्तिधर्मानवच्छिन्नत्वं विशेष्यताविशेषण- मावश्यक अन्यथा गगनवृत्तिविशेष: परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायादित्यनु- मितिविशेष्यतामादायासंभापातात् तादृशानुमितेरपि स्वेतराविशेष्यकत्वात् उक्तविशेषणेतु तादृशानु• भितिनिरूपितविशेषनिष्ठविशेष्यतावच्छेदककोटी स्वेतरशब्दादिवृत्ते गनवृत्तित्वस्य घटकत्वान्नानुपपत्तिः ए. वंच तेनैव गगनवृत्तिरितरभिन्न इत्यनुमितिविशेष्यतामादाय प्रसक्कासंभवस्यापि वारणसंभवात् स्वेतरा- विशेष्यकत्वं व्यर्थ विशेष्यतायां स्वेतरवृत्तिधर्मानवच्छिन्नत्वलामश्च स्वविशेष्यकत्वपदेन स्तरवृत्तिधर्मानव- च्छिन्नविशेष्यताकत्वविवक्षयेव अनुमित्यविशेष्यत्वपदेन अनुमितिनिरूपितस्थेतरवृत्तिधमानवच्छिन्नविशेष्य- तावद्भिन्नत्वविवक्षयापि निवतीति व्यर्थ स्वविशष्यकपद : येऽत्र विशेषाणा परस्पर भेदानुमितिः न स्व भिन्नलिङ्गजन्याभ्युषेयत इति समयं वनन्ति ते केवलं विप्रलम्भयन्ति पामरान् सति गगनपरि-- माणशब्दादी व्यातिज्ञाने सति च हतोगनवृत्तिविशेषरूपपक्षधर्भताज्ञानादौ लोकानां जायमानायाः पूर्वी- क्तानुमितः कस्यचिदुन्गस्तकस्य समयसंबन्ध मात्रेण निद्धिमशक्यत्वात् नन्न तथापि एतद्विशेषाः शब्दश्च परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायात् इत्यनुमितिविशेष्यतामादायासंभवः प्रसन् ज्यते सच स्वेत्तरवृत्तिधानवच्छिन्नत्वाविशेषणेन न शक्यते वारयितुं एतद्विशेषत्वावच्छिन्नविशेष्यता- यास्तथाविधत्वात् । किंतु स्वेतराविशेष्यकत्वविशेषणेन वेति स्वविशेष्यकपदमावश्यकामिति वाच्यं ए. वमप्येतद्विशेषः परमाणुवृत्तिविशेषाद्भिद्यते गगनानुयोगिकसमवायादित्यनुभितिविशेषटयतामादायासंभ. ववारणाय स्वसमानाधिकरणावृत्तित्वेन भेदस्य विशेषणीयतया तेनैवोक्तदोषवारणसंभवात् तथाहि सू. ति हेतोः व्यातिपक्षधर्मताज्ञानादौ दर्शितानुमितिदुरपह्नवा । साच स्वतराविशेष्यका स्वेतरवृत्तिधर्मानव वच्छिन्नविशेष्यताका चेति तद्विशेष्यतामादायासंभवः प्रसज्यते सच भेदे स्वसमानाधिकरणपदार्था- न्तरावृत्तित्वनिवेशेन वार्यते परमाणुवृत्तिविशेषभेदस्य स्वसमानाधिकरणशब्दपारमाणदिरूपपदार्थान्तरवृत्ति त्वान्न दोष एवंच पूर्वोचत्रिविधानुमितिविपीभूतस्यापि भेदस्य स्व समानाधिकरणपदार्थान्तरवत्ति स्वेन असंभवप्रसक्यभावातू स्वेतराविशेष्यकत्वं स्वेतरवृत्तिधर्मानवच्छिन्नत्वं चेत्युभयमपि नोपादेयमेव । तत्तत्परमाणुनिष्ठो यो विशेषः तत्समानाधिकरणपदार्थान्तरावत्तिश्च भेदः तद्विशेषतरयावद्यातिप्रतियोगित कस्तशिषमात्रवत्तिभेदः तद्विशेषतरपृथ्वासमवेतप्रतियोगिकस्तहिशेषजलपरमावादित्तिविशेषसाधारणमेद इत्यादिः तदनुभाषकश्वेतद्विरोधे कश्चिद्धेतुनास्ति नोतविशेषमात्रवृत्तित्व वक्तव्या अन्यथाव्यभिचारप्रसक्त ताक था एतावशेषतरभदे साध्य एतत्परमाण्वनुयोगिकसमवायो न हेतुभवितुमर्हति एतत्परमा वृतिरूपादो व्यभिचा- रादिति एतद्विशेषत्वंच न वस्तुगत्या एतद्विषादतिरिच्यते घटादौ तु नै एतत्कपालसमवेतदव्यत्वादेरेतत्कपा० -