पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । विषया विशिष्टबुद्धित्वाद्दण्डी पुरुष इति विशिष्टबुद्धिवदित्यनुमा । अनेन संयोगादीनां प्रभा- तित्वासंभवादुपाधिरूपत्वं वाच्यं तत्किं तदाह ॥ समवायत्वमिति ॥ नित्यसंवन्धत्वमिति ॥ निः त्यत्वे सति संवन्धत्वं समवायलक्षणमित्यर्थः । नित्यत्वमात्रोक्तौ आकाशादावतिव्याप्तिः । संवन्धत्वमा- त्रोक्तौ संयोगेऽतिव्याप्तिः अत उभयमुपात्तम् । अत्र संबन्धत्वं विशिष्टप्रतीतिनियामकत्वं विशिष्टबुद्धि निरूपितप्रकारत्वविशेष्यत्वान्यविषयतावत्वमिति यावत् । तेन विशिष्टप्रतीतिनिरूपितविषयत्वरूपविशि- प्रतीतिनियामकत्वस्य घटत्वादौ सत्त्वेऽपि न तत्रातिव्याप्तिः । नच तथापि घटाभावो घटाभा-- ववानित्यादिविशिष्ट बुद्धिनिरूपितप्रकारत्वविशेष्यत्वान्यविषयतावन्त्वस्य घटाभावात्मकाधेयस्वरूपसंबन्धे न. वीनमते घटाभावात्मकाधिकरणस्वरूपसंवन्धे वा सत्त्वात् तत्र नित्यत्वस्यापि सत्वातिव्यातिारेति वा. च्यं तद्बुद्धिनिरूपित प्रकारत्वविशेष्यत्वान्यतरवद्भिन्नत्वेनापि विशेषणीयत्वात् । नच तथापि विशिष्टवु. द्धित्वस्यानुगतस्याभावेन तद्व्यक्तित्वेनैव लक्षणे निवेशनीयतया घट इत्याकारकबुद्धिव्यक्तिनिरूपितप्रका- रत्वविशेष्यत्वान्या या पट इत्याकारकबुद्धिव्यक्तिनिरूपितविषयता तस्याः पटत्वे सत्त्वात् घट इत्या- कारकपूर्वोक्तबुद्धिव्यत्तिनिरूपित्तप्रकारत्वविशेष्यत्वान्यतरचानत्वस्यापि पटत्वे सत्त्वाच पटत्वादावतिव्या- तमिति वाच्यं तद्बुद्धिानरूपितप्रकारत्वविशेष्यत्वान्यविषयतायां तद्बुद्धिनिरूपितत्वेनापि विशेषणीयत्वात् पटत्वनिष्टविषयतायां घट इत्याकारकवुद्धिव्यक्तिनिरूपित्तत्वाभावेनातिव्याप्तेरभावात् तद्बुद्धिपदेन घटपटाविति समूहालम्बनात्मकवुद्धिस्वीकारे तु तद्बुद्धिनिरूपितप्रकारतात्वेन घटत्वपटत्वप्रकारत्वे अनुगमथ्य तद्बुद्धि- निरूपितप्रकारत्वाविशेष्यत्वसामान्यभिन्नत्वस्य विषयतायां निवेशनीयतया पटत्वनिष्टविषयतायास्तादृशत्वा- मजूषा. द्विषयतानिरूपितत्वम्यापि विषयताविशेषणत्वात् नच गगनादिनिष्ठघटत्वाभावादिरूपस्वरूपसंबन्धेऽति- व्याप्तिराित बाध्य प्रकारत्वाविशेष्यत्वान्यतरवभिन्नत्वस्यापि विशेषणत्वात् नच समवायस्यापि कदा- चिदमदादिज्ञाने नित्यज्ञाने च प्रकारत्वाद्विशेष्यत्वाच असंभव इति वाच्यम् । प्रकारत्वविशेष्यत्वान्यविष- यतायामेव स्वनिरूपकप्रकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तित्वस्य निवेशनीयत्वात्समवायनिष्ठा या संसर्ग- ताख्या विषयता तनिरूपकप्रकारत्वविशेष्यत्वयोस्समवाये अभावान्न दर्शितदोषः । एवंच किंचिद्विषय. तानिरूपितत्वं नोपादेयमित्यस्मद्गुरुचरणसम्मतः परिष्कारः । अथ घटसमवायकपालयोर्यस्स्वरूपसंवन्धस्स समवायरूपस्तदा धटसमवायवान् कपाल इति प्रतीतिनिरूपित्तस्वरूपसंबन्धनिष्ठसंसर्गतानिरूपक- प्रकारताबद्भिन्नत्वविरहादसंभवः यद्यधिकरणस्वरूपस्तदा तुल्ययुक्त्या प्रमेयत्ववान् समवाय इति प्रती. तिविषयस्वरूपसंबन्धस्यापि समवायरूपतया तनिष्टसंसर्गतानिरूपितविशेष्यतावद्भिनत्वविरहादसंभव इति चेद्रान्तोऽसि नहि स्वनिष्ठविषयतानिरूपितनकारत्वविशेष्यत्वान्यतरवद्भिन्नत्वं लक्षणमिति वयं ब्रूमः येनाय- मसंभवस्स्याकिंतु स्वनिरूपितप्रकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तियाँ विषयता प्रकारत्वविशेष्यत्वान्या तदा. श्रयत्वमित्येव । एवंच घटसमवायवान् कपाल इत्यादिप्रतीतिनिरूपितसंसर्गतामादाय लक्षणसमन्वयो मा भूत् बटवान् कपाल इत्यादिप्रतीतिविषयतामादाय लक्षणसमन्वयः केन वार्यते अथवा प्रकारतात्व- विशेष्यतात्ववत्संसर्गतात्वस्याप्यतिरिक्ततया स्वनिरूपितनकारत्वविशेष्यत्वान्यतरवद्भिन्नवृत्तिसंसर्गताश्रयत्वमेव संबन्धत्वामिति बोध्यं यद्यपि समवायः प्रत्यक्षसिद्ध एव नीलो घट इत्यादौ तस्य संसर्गतया भाना- दिनकरीयम्. तिव्याप्तिः । ननु समवायस्य सम्बन्धत्वे किं मानमित्याशङ्कयाह । तन प्रमाणन्विति रामरुद्रीयम्. न्धत्वं समवायलक्षणमतः प्रतियोग्यनुयोग्यात्मकखरूपसम्बन्धे नातिव्याप्तिः । अत्र च द्रव्यत्वाभावादीनां लाघवात् द्रव्यत्वाभावादिरेक एव सम्बन्धः घटादीनां महाकाले कालिकसम्बन्धो लाघवादेक एव महाकाल इति खरूपसम्बन्धस्य कचित्प्रतियोगिरूपता काचेदनुयोगिरूपतेति विभागो बोध्यः । सम्ब.