पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ पञ्चमः सर्गः ।

  • ८ खाम्यनुजीविवृत्तप्रकरणं *

वृत्तस्थं वृत्तसम्पन्नाः कल्पवृक्षोपमं नृपम् । अभिगम्यगुणैर्युक्तं सेवेरन्ननुजीविनः ॥ १ ॥

द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः ।
भवत्याजीवनं तस्माच्छलोध्यं कालान्तरादपि ॥ २ ॥ 

अपि स्थाणुवदासीत शुष्यन् परिगतः क्षुधा ।

न त्ववानात्मसम्पन्नाद् वृत्तिमहत पण्डितः ॥ ३ ॥ 

अनात्मवान् नयद्वेषी वर्धयन्नरिसम्पदः ।

प्राप्यापि महदेश्वर्यं सह तेन विनश्यति ॥ ४ ॥

एवं प्रकृतिसम्पदा युक्तेन स्वनिना कथं स्वेषु वर्तितव्यं वैश्व स्वामि- नीति स्वाम्यनुजीविवृत्तमुच्यतेऽस्मिन् सर्गे । तत्राराव्यस्य प्रधानत्वात् तद्विषयमनु- जीविनो वृत्तमाह--अष्टपञ्चाशता होः । वृत्तस्यमित्यादि । वृत्तस्थं प्रजापालन धर्मे स्थितम् । वृत्तसम्पन्नाः स्वधर्मसंयुक्ताः । कल्पवृक्षोपमं यथाभिलपित्तसम्पादनात् । अभिगम्यगुणाः अभिगामिकगुणाः, अथवा अभिगम्य प्रियहितद्वारेणाश्रित्य । गुणैर्युक्तं प्रकृतिगुणैरन्वितम् ॥ १ ॥ द्रव्यप्रकृतिहीनोऽपीति पक्षान्तरं दर्शयति । अमात्यादयो दण्डपर्यन्ता द्रव्यप्रकृतयः, तद्धीनमप्यभिगामिकगुणैरुपेतं सेवेतेति । ततो हि कालान्तरेणापि जीवनं श्लाघ्यम् ॥ २ ॥ न त्वेवानात्मसम्पादिति द्रव्यकृतियुक्तादानेन वृतिनीहेत ॥ ३ ॥ किमर्थमिति चेद् यदाह - अनात्मवानित्यादि । स हि नीतिशास्त्रविद्वे- पादरसम्पदो वर्धयन् स्वसम्पद्धधात् । प्राप्यापि मपदैश्वर्यमिति । ऐश्वर्यसम्पूर्णोऽपि नरयत्येव । ततश्च तत्राश्रितस्य वृथा श्रमः स्यात् ॥ ४ ॥ १. 'य' क. पाठः. २. 'पंत' क. पाठः.