पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [पञ्चमः लब्धावकाशो निपुण आत्मवत्यविकारवान् । स्थाने स्थैर्यमवाप्नोति मन्त्री कर्मसु निश्चितः ॥ ५ ॥

आयत्यां च तदात्वे च यत् स्यादास्वादपेशलम् । 

तत् क्लिश्यन्नपि कुर्वीत न लोकद्विष्टमाचरेत् ॥ ६ ॥

तिलाश्चम्पकसंश्लेषात् प्राप्नुवन्त्यधिवासनाम् । 

रसोनभक्षास्तद्गन्धाः सर्वे साङ्क्रामिका गुणाः ॥ ७ ॥

अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः । 

भवत्यवश्यं तद् विद्वान् नाश्रयेर्दशुभात्मकम् ॥ ८ क्लिश्यन्नपि हि मेधावी शुद्धं जीवनमाचरेत् । तेनेह श्लाघ्यतामेति लोकेभ्यश्च न हीयते ॥ ९ ॥ आत्मवति तु को गुणः स्यादित्याह - - आत्मवति स्वामिनि । लब्धसंश्रयोऽनुजीवी । निपुणः शास्त्रकलासु । अविकारवान् अविसंवादकत्वादेकमार्गः । स्थाने स्थैर्यमवाप्नोति, यत्र नियुक्तः । मन्त्री कर्मसु निश्चित इति । अस्य वक्ष्यमाणेन सम्बन्धः स्वामिना मन्त्री (अन्यस्तु ? कर्मसु ) व्यापारेषु नियुक्तः सन् ॥ ५ ॥ यदायत्यां तदात्वे चास्वादपेशलम् आस्वादहृद्यं कटुविपाकाभावात् तत् क्लिश्यन्नपि कुर्वीत तस्मिन् आत्मवति लब्धसंश्रयोऽनुजीवी कर्म कुर्यात् नतु लोकविद्विष्टमाचरेत् ॥ ६ ॥ अन्यथा ह्यनात्मवति लब्धसंश्रयः सर्व वैपरीत्येनारभते, सम्पर्कदोषात् । यदाह -- तिला इत्यादि ॥ ७ ॥ तद् विद्वानिति । तस्मादेवं जानन् । अशुभात्मकमनात्मवन्तं सत्यपि जीवने नाश्रयेत् ॥ ८ ॥ तुल्ये च सेवाक्लेशे वरं परिशुद्धमाजीवनम् । यदाह -- क्लिश्यन्नपीत्यादि । १. 'वानवि' क. पाठ:. २. 'ति' ख.ग. पाठः ३. 'से' ख. पाठः. ४. 'ता' क पाठ:.

  • अनुदात्तेत्त्वलक्षणो हि तङनित्यः.