पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सद्भिर्निषेवितम् । सेवेत सिद्धिमन्विच्छन् श्लाघ्यं विन्ध्यमिवेश्वरम् ॥ १० ॥

दुरापमपि लोकेऽस्मिन् यद्यद् वस्त्वभिवाञ्छति ।
तत्तदाप्नोति मेधावी तस्मात् कार्यः समुद्यमः ॥ ११ ॥ 

आरिराधयिषुः सम्यगनुजीवी महीपतिम् ।

विद्याविनयशिल्पाद्यैरात्मानमुपपादयेत् ॥ १२ ॥ 

कुलविद्याश्रुतौदार्यशिल्पविक्रम धैर्यवान् । वपुस्सत्त्वबलारोग्यस्थैर्यशौचदयान्वितः ॥ १३ ॥ तेनेति शुद्धजीवनेन । लोकेभ्यश्च न हीयत इति । परिशुद्धवृत्तत्वान्न लोकवाच्यो भवतीत्यर्थः ॥ ९ ॥ शुद्धं चाजीवनमन्विच्छन् अभिलक्ष्यत्वादिधर्मयुक्तं सेवेत, तत्र ह्यात्मवत्तायाः सम्भवादित्याह – अभिलक्ष्यमित्यादि । अभिलक्ष्यं स्वजातीयेषु, भूभृत्सु च । स्थिरम् अनुच्छेद्यम् । पुण्यं धार्मिकत्वाद्, इतरत्र सिद्धिक्षेत्रत्वात् । ख्यातं सर्वत्र । . सद्भिः वृद्धैः, इतरत्र मुनिभिः ॥ १० ॥ सेवाप्रयाससाफल्यं दर्शयति - दुरापमपीत्यादिना । तस्मात् कार्यः समुद्यमः तत्र न दैवप्रमाणस्तिष्ठेत्, तस्याचिन्त्यत्वात् । उद्यमश्च नयविकलो नैकान्तेन फलवानित्याह --- मेधावीति । मेधाग्रहणं बुद्ध्युपलक्षणार्थम् ॥ ११ ॥ निपुणस्यासेवकर्त्यांन्याराधनसम्भवादित्याह - आरिराधयिषुरित्यादि । आराधयितुमिच्छुः ॥ १२ ॥ तान् गुणानाह — कुलेत्यादि । विद्या ग्रन्थतोऽवधारिता । तस्या एवर्थतः परिज्ञानं श्रुतम् । औदार्य स्थूललक्षता । धैर्यम् अनौद्धत्यम् । वपुरित्यनेन कुशरीरप्रतिषेधः । स्थैर्यम् अपरित्यागिता । शौचम् उपधाशुद्धिः ॥ १२ ॥ १. 'स्थानम्' इति मूलकोशेषु पाठः. २. 'मशौर्य' क. पाठः. ३. 'शीलशीचसमन्वि ख-ग. पाठः. ४. ‘चापीदम' ग घ पाठः ५. 'धा बुद्ध्युपलक्षणार्थी' ग घ पाठः ६. ‘स्यारा’ ग-घ. पाठ..