पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७० कामन्दकीय नीतिसारे [ पञ्चमः पैशुन्यद्रोह सम्भेदशाख्यलौल्यानृतातिगः ।

स्तम्भचापलहीनच सेवनं कर्तुमर्हति ॥ १४ ॥
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ।
सन्तोषः शीलमुत्साहो मण्डयन्त्यनुजीविनम् ॥ १५ ॥
अर्थशौचपरो नित्यं गुणैरेभिः समन्वितः ।
भूतये भूतिसम्पत्रं साधु विश्वासयेन्नृपम् ॥ १६ ॥ 

प्रविष्टः सम्यगुचिते स्थाने तिष्ठन् सुवेषवान् ।

यथाकालमुपासीत राजानं विनयान्वितः ॥ १७ ॥ 

परस्थानासनं क्रौर्यमौद्ध्त्यं मत्सरं त्यजेत् । विगृह्य कथनं चापि न कुर्याज्ज्यायसा सह ॥ १८ ॥ सम्भेदातिग इति परस्याभेद्य इत्यर्थः । शाठ्यं चित्तकौटिल्यम् । लौल्यं जिह्वादीन्द्रियलोलुपता । शेषा व्याख्यातप्रायाः ॥ १४ ॥ दक्षता उत्साहगुणान्तर्भावेऽपि प्राधान्यार्थ पृथकृता । भद्रता लोकप्रियता । दार्ढ्यं कर्मसु । क्षान्तिः आक्रोशादितितिक्षा | काले त्वमर्ष इष्यत एव उत्साहगुणत्वात् । सन्तोषः पानाशनादिषु । गण्डयन्यनुजीविनमिति पूर्वोक्तसर्वगुणाभावेऽपि दक्षतादिगुणाष्टके त्वाद्रियेत इति दर्शयति अत्यन्तोपयोगित्वात् । एवं हि गुणव्यतिरेकेणैषां निर्देशः ॥ १५ ॥ अर्थशौचपर इति अनुजीविनां प्रायेणार्थेष्वधिकारात् । विश्वासयेन्नृपम् उपासनां कुर्वन्निति शेषः ॥ १६ ॥ तामुपासनामाह -- प्रविष्ट इत्यादिना । सम्यक् प्रविष्टः यदानुज्ञातः प्रविशत्विति । उचिते उत्तमाधममव्यमव्यवस्थाकल्पिते । सुवेषवान् अनुपहतदर्शनः । यथाकालं यो यस्य सेवाकालः । उपासीत सेवेत ॥ १७ ॥ सेवाविधिमाह - परस्थानेत्यादिना ग्रन्थेन । औद्धत्यम् अननुरूपचे- ष्टता । ज्यायसा अधिकतरेण ॥ १८ ॥ १. 'आपतुक्के' क. पाठ:.. २. 'दृतः क ख ग घ पाठः,