पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] अष्टमं प्रकरणम् ! विप्रलम्भं च मायां च दम्भं स्तेयं न वर्जयेत् । पुत्रेभ्यश्च नमस्कुर्याडमेन्यथ भूपतेः ॥ १९ ॥ न नर्मसचिवैः सार्द्धं किञ्चिदप्यत्रियं वदेत् । ३ شرفة ते हि सर्मण्यभिघ्नन्ति प्रहासेनैव संसदि ॥ २० ॥

भत्तुरन्वासितो दृष्टिं मुहुर्नान्यत्र निक्षिपेत् । 

ब्रूयान्न किञ्चिदन्योन्यं तिष्ठेच्चास्यं विलोकयन् ॥ २१ ॥

कोऽत्रेत्यहमिति ब्रूयात् सम्यगाज्ञापयेति च ।
आज्ञां चावितथां कुर्याद् यथाशक्त्यविलम्बितम् ॥ २२ ॥ 

उच्चैः प्रकथनं हासं ष्ठीवनं कुत्सितं तथा । जृम्भणं गात्रभङ्गं च पर्वस्फोटं च वर्जयेत् ॥ २३ ॥ प्रविश्य चानुरागेण चित्तं चित्तज्ञसम्मतः । समर्थयं तत्पक्षं साधु भाषेत भाषितम् ॥ २४ ॥ विमलम्भं विसंवादनन् । अन्यथा प्रतिज्ञायान्यथा करणमित्यर्थः । माया वञ्चनां, यत्र सर्वथार्थाभावः । दम्भं कुङ्कुटवृत्तम् ॥ १९ ॥ न नर्मसचिवैरिति । नर्मसचिवो यथा वसन्तको वत्सराजस्य, क्रीडास- चिव इत्यर्थः ॥ २० ॥ भर्तुरन्यत्रेति सम्बन्धः । अन्वासितः आसनसमीपे व्यवस्थितः ॥ २१ ॥ अवितथामिति । कार्यसम्पादनेन सफलाम् ॥ २२ ॥ ष्टीवनं श्लेष्मादिनिरसनम् । कुत्सितं दुष्टभारुतकर्म । पर्वस्फोटम् अड्गुलीनाम् ।। २३ ।। चित्तज्ञसम्मत इति । राजाभिप्रायविदां पार्श्ववर्तिनां सम्मतः । असम्मत हि ध्रुवं तद्वेषाद् द्वेष्यः स्यात् । तत्पक्षं राजाभ्युपगतम् ॥ २४ ॥ पाठ: १. 'द व स्तम्भ मायां च व क. पाठः. ४. 'सने दृ' इति सूलकोशेषु पाठः.. २. 'क्वचिद' क. पाठः. ३. 'स्य' क. ५. 'यात् किमयमित्येव ति' ख-ग. पाठः. ६. 'रसनं त' इति मूलकोशेपु पाठः. ७. 'द्वाक्य सा क. पाठः. ८. 'ज्ञया' गघ. पाठः. ९. 'ड' गच. पाठः. १०. ' त अन्वासने आ' क ख ग घ पाठः.