पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७२ कामन्दकीयनीतिसारे [पञ्चमः तन्नियोगेन वा ब्रूयादर्थं सुपरिनिश्चितम् । सुखप्रबन्धगोष्ठीषु वादे वा वादिनां मतम् ॥ २५ ॥ विजानन्नपि न ब्रूयाद्भर्तुः क्षिप्तोत्तरं वचः ।

प्रवीणोऽपि हि मेधावी वर्जयेदभिमानिताम् ॥ २६ ॥ 

यदप्युच्चैर्विजानीयान्नीचैस्तदपि कीर्त्तयेत् । कर्मणौ तस्य वैशिष्ट्यं कथयेद् विनयान्वितः ॥ २७ ॥ आपद्युन्मार्गगमने कार्यकालात्ययेषु च । अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥ २८ ॥

प्रियं तथ्यं च पथ्यं च वदेद्धर्म्यार्थ्यमेव च । 

अश्रद्धेयमसभ्यं च परोक्षं कटु चोत्सृजेत् ॥ २९ ॥ सुखप्रबन्धगोष्ठीष्विति । सुखार्थप्रवर्त्तित काव्यादिगोष्ठीवित्यर्थः ॥ २५ ॥

क्षिप्त्वोत्तरं वच इति । न सम्यगित्युक्तमाक्षिप्य । 

अभिमानिताम् अहमेव जानामीति ॥ २६ ॥ / उच्चैरधिकं । नीचैः विस्रब्धम् । वैशिष्ट्यम् आधिक्यम् । विनयान्वितः निहतमानः ॥ २७ ॥ आपद पराभियोगादौ । उन्मार्गगमने अदण्ड्यदण्डनादौ । कार्यकालात्ययेषु चेति । यत् कार्य, यस्मिन् काले चिकीर्षितं, तयोरतिपातनेषु । कल्याण- भाषितं युक्तियुक्तम् ॥ २८ ॥ प्रियं तदात्वे सुखकरम् । तथ्यं सद्भूतम् । पथ्यं यत् परिणामसुखम् औषधपानवत् । धर्म्यार्थ्यमेव चेति । गुरुप्रत्युत्थानादिकं धर्म्य, यातव्याभिसरणादिकमर्थ्यम् | अश्रद्धेयं प्रत्यक्षमपि । असभ्यं सभायामसाधु । परोक्षं तथ्यमपि यत् स्वयं नोपलब्धम् । कटु अश्रव्यम् ॥ २९ ॥ १. 'ष्ठि' क. पाठः. २. 'प्तो' ख-ग. पाठः. ३. 'णस्त' ख- ग. पाठः. ४. 'र्ये' ख-ग. पाठः. ५. 'त्यं' ख-ग. पाठः. ६. 'तो' ग. घ. पाठः ७. 'म्यगुक्तमित्याक्षि' ङ-च. पाठः. ९. 'अर्थ' ग घ पाठः. ८. 'प्याह' क ख ग घ पाठः,