पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । ७३ परार्थ देशकालज्ञो देशे काले च साधयेत् । स्वार्थं च स्वार्थकुशलः कुशलेनार्थकारिणा ॥ ३० ॥ गुह्यकर्म च मन्त्रं च न भर्त्तुः सम्प्रकाशयेत् ।

विद्विष्टेमपि नाशं च मनसापि न चिन्तयेत् ॥ ३१ ॥
स्त्रीभिस्तद्दर्शिभिः पापैर्वैरिदूतैर्निराकृतैः ।
एकार्थचर्यासेङ्घातं संसर्ग च विवर्जयेत् ॥ ३२ ॥ 

वेषभाषानुकरणं न कुर्यात् पृथिवीपतेः ।

सम्पन्नोऽपि हि मेधावी स्पर्धेत न च तद्गुणैः ॥ ३३ ॥ 

रागापरागौ जानीयाद् भर्त्तुः कुशलकर्मकृत् । इङ्गिताकारलिङ्गाभ्यामिङ्गिताकारतत्त्ववित् ॥ ३४ ॥ परार्थम् अन्यस्याजीवनार्थम् । देशकालज्ञः, अन्यथा हि सहसा न साधयेत् । देशे काले च समुपस्थिते । पुनरुपादानम् एतौ परस्परापेक्षया कार्य साधयत इति दर्शनार्थम् । स्वार्थकुशलो देशकालज्ञ इत्यर्थः । कुशलेन देशकालज्ञेन । अर्थकारिणा कल्याणाशयेन ॥ ३० ॥ गुह्यकर्म चारप्रणिधानादिकं भर्तुः सम्बन्धि । विद्विष्टं वाक्पारुष्यादि ॥ स्त्रीभिः धात्र्यादिकाभिः । तद्दर्शिभिः स्त्रीदर्शिभिः कञ्चुकिभिः । पापैर्वैरान्वेषिभिः वैरिदूतैः शत्रुप्रेषितैः । निराकृतैः राज्ञा अर्थमानाभ्यामवक्षिप्तैः । एकार्थचर्यासङ्घातं सम्भूयैकार्थसाधनाय मेलनं, तत्संसर्गमपि ॥ ३२ ॥ सम्पन्नोऽपि तद्गुणैरिति सम्बन्धः ॥ ३३ ॥ कुशल कर्मकृत् स्वामिहिताचरणात् । इङ्गिताकारलिङ्गाभ्यामिति । यथाभि- प्रायानुरूपक्रियाविष्करणमिङ्गितं, भ्रुकुटीमुखरोगादिराकारः तावेव लिङ्गभूतौ रागा- परागानुमाने । इङ्गिताकारतत्त्वविदिति । प्राज्ञा हि मन्त्रसंवरणार्थं रागद्वेषविपर्या- समिङ्गिताकाराभ्यामाचरन्ति । तस्मात् तत्त्ववित् स्यात् ॥ ३४ ॥ १. 'ष्टत्वं विना' ख-ग. पाठ:. २. 'संवासं सं' ख.ग. पाठः ३. 'भिः राजद्वेषिभिः । वै' क ख ग घ पाठः. ४, ‘कूलक्रि' इ-च. पाठः. ५. 'विकारादि' इन्च पाठः०