पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

______________ कामन्दकीय नीतिसारे [पञ्चमः ७४ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।

दिशत्यासनमभ्याशे कुशलं परिपृच्छति ॥ ३५ ॥
विविक्तदर्शने स्थाने रहस्ये च न शङ्कते ।
तदर्थौ तत्कृतां चोच्चैराकर्णयति संकथाम् ॥ ३६ ॥
श्लाघते श्लाघनीयेषु श्लाघ्यमानं च नन्दति ।
कथान्तरेषु स्मरति प्रहृष्टः कीर्त्तयेद् गुणान् ॥ ३७॥ 

सहते पथ्यमुक्तः सन् न निन्दामनुमन्यते । करोति वाक्यं तस्यैव तद्वच्च बहुमन्यते ॥ ३८ ॥ वृद्धौ प्रसन्नो भवति व्यसने परितप्यते । उपकारेषु माध्यस्थ्यं दर्शयत्यद्भुतेषु च ॥ ३९ ॥

तत्कृतं कर्म चान्येन कृतमित्यभिभाषते ।
विपक्षमुत्थापयति विनाशं चाप्युपेक्षते ॥ ४० ॥

तदिदानीं प्रायोवृत्त्याभिधीयते । तत्र रागमधिकृत्याह - दृष्टेत्यादि । अभ्याशे समीपे ॥ ३५ ॥ विविक्तदर्शन इति एकस्य राज्ञो दर्शनं यस्मिन् स्थाने । तदर्थाम् अन्येन क्रियमाणाम् ॥ ३६॥ श्लाघनीयेष्विति अभीप्सितेष्वर्थेषु ॥ ३७ ॥ पथ्यम् उक्तः अप्रियमपि । तद्वच्चेति । यथा सेवकस्तत्कृतं कर्म बहुन्यते, तथा स्वाम्यपि तत्कृतमिति ॥ ३८ ॥ अपरागमधिकृत्याह – उपकारेष्वित्यादि । अद्भुतेषु अशक्यकरणा- दिषु ॥ ३९ ॥ विनाशं चाप्युपेक्षते विपक्षादुत्पद्यमानम् ॥ ४० ॥ १. 'सत्क' क. पाठः. २. 'तद्भक्तं त' ख-ग. पाठः. ३. 'तीतो भ' क. पाठः. ४. 'स्व- 'नुत' क. पाठः-