पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । कार्ये संवर्द्धयत्याशां फले च कुरुतेऽन्यथा । यद्वाक्यं मधुरं किञ्चित् तदप्यर्थेन निष्ठुरम् ॥ ४१ ॥ आचरत्यात्मसंसत्सु परिवादं च केवलम् । अकोपो ऽपि सकोपाभः प्रसन्नश्वापि निष्फलः ॥ ४२ ॥ हसत्यकस्माद् व्रजति रूक्षं च समुदीक्षते ।

विज्ञाप्यमानो वृत्त्यर्थं सहसोत्थाय गच्छति ॥ ४३ ॥

आघट्टयति मर्माणि गुणैर्न बहुमन्यते । सम्भावयति दोषेण वृत्तिच्छेदं करोति च ॥ ४४ ॥

साधूक्तमपि तद्वाक्यं समर्थयति चान्यथा । 

अपर्वणि कथाभङ्गं करोति विरसीभवन् ॥ ४५ ॥ उपास्यमानः शयने सुप्तलक्षेण तिष्ठति । यत्नेनाराध्यमानोऽपि सुप्तवच्च विचेष्टते ॥ ४६ ॥ ७५ कार्ये संवर्द्धयत्याशां 'कृतेऽस्मिन्निदं दास्यामी'ति । फले च कुरुतेऽन्यथा सम्पादिते प्रतिज्ञातं न प्रयच्छति । अर्थेन निष्ठुरं दुष्टार्थत्वात् ॥ ४१ ॥ आत्मसंसत्सु स्वसभामध्ये । सकोपाभः मुखविकारात् ॥ ४२ ॥ रूक्षमस्निग्धम् ॥ ४३ ॥ आघट्टयति चालयति । वृत्तिच्छेदं जीवनाक्षेपम् ॥ ४४ ॥ अन्यथेति दोषेणेत्यर्थः । अपर्वणि अप्रस्तावे । विरसीभवन् विरक्ती- भवन् ॥ ४५ ॥ सुप्तलक्षेण सुप्तव्याजेन तिष्ठति । तदापि यत्नेनाराध्यमानः सुप्तवच्च विचेष्टते दीर्घनिःश्वासादिना ॥ ४६ ॥ १. 'नोऽपि हि नि' क. पाठः. २. 'रहस्येष्ववशङ्कते' क, पाठः,