पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७६ कामन्दकीय नीतिसारे [पञ्चमः इत्यादि नुरक्तस्य विरक्तस्य च लक्षणम् ।

रक्ताद् वृत्ति समीहेत विरक्तं च परित्यजेत् ॥ ४७ ॥
निर्गुणं ह्यपि भर्त्तारमापत्सु न परित्यजेत् । 

ततः परतरो नास्ति य आपत्सूपतिष्ठते ॥ ४८ ॥ स्वस्थवृत्तेषु सत्त्वाढ्या नोपयान्त्यभिलक्ष्यताम् ।

विरोधे कैर्मधुर्याणां तेषां नामातिरिच्यते ॥ ४९ ॥ 

श्लाघ्यो चानन्दनी चैव महतामुपकारिता ।

काले कल्याणमाधत्ते स्वल्पापि सुमहोदयम् ॥ ५० ॥
अकार्यात् प्रतिषेधश्च कार्ये चैवानुवर्तनम् । 

सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनाम् ॥ ५१ ॥ विरक्तं च परित्यजेत् । तस्य न केवलमाराधनं निष्फलं दोषकरमपि स्यात् ॥ ४७ ॥ निर्गुणमपि किमुत गुणवन्तम् । ततः परतर इति । उत्कृष्टतरः ।। ४८ ॥ तदेव स्फुटयन्नाह --- स्वस्थवृत्तेष्विति । स्वस्थावस्थेषु स्वामिषु सत्त्वाढ्या भृत्याः । विरोधे पराभियोगप्रभवे । नामातिरिच्यते एते एव सद्वृत्याः, यैरुपकृतमस्मिन् काल इति ॥ ४९ ॥ w तदेवोपकृतं स्तौति - श्लाघ्येत्यादिना । तदात्वे तावल्लोके स्पृहणीया । आनन्दनी च महतामावर्जनात् । काले आयत्यां कल्याणमाधत्ते । सुमहोदयं निरवद्यं महाफलं च ॥ ५० ॥ माह -- एतत्तावदन्युत्पन्नबुद्धीनामनुग्रहार्थं विस्तरतो वृत्तमुक्तम् । व्युत्पन्नबुद्धीना- अकार्यादित्यादि । अधर्म्यानर्थ्याविद्वेष्येषु प्रवर्त्तमानस्य स्वामिनो व्यावर्त्तनं, धर्म्यार्थ्याद्वेष्येषु प्रवर्त्तमानस्यानुवर्त्तनमित्येतावदेवाराधनायालम् । बन्धुमि- त्रग्रहणमनुजीविभिस्तुल्यैयोगक्षेमदर्शनार्थम् ।। ५१ ।। १. 'त्येवमनु' क. पाठः. २. 'के तां प-' ख-ग. पाठः ३. 'तु' इति मूलकोशे पठ्यते. ४. 'ध' क-ख, पाठः ५. 'ध्यैवान' क. पाठः, ६ 'ये प्र' क. पाठः ७, 'ल्यं यो' क-ख. पाठः,