पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] अष्टमं प्रकरणम् । पानस्त्रीद्यूत गोष्ठीषु राजानमभितश्चराः । बोधयेयुः प्रमाद्यन्तमुपायैर्नालिकादिभिः ॥ ५२ ॥ राजानं ये ह्युपेक्षन्ते सज्जमानं विकर्मसु । गच्छन्त्यकृतात्मानः सह तेन पराभवम् ॥ ५३ ॥

जयाज्ञापय देवेति नाथ जीवेति चादरात् ।
आज्ञोमस्य प्रतीच्छन्तो भृत्याः कुर्युरुपासनम् ॥ ५४ ॥
भर्तुश्चित्तानुवर्त्तित्वं सद्वृत्तमनुजीविनाम् ।

रक्षांस्यपि हि गृह्यन्ते नित्यं छन्दानुवर्त्तिभिः ॥ ५५ ॥

धीसत्त्वोद्योगयुक्तानां किं दुरापं महात्मनाम् । 

छन्दानुवर्त्तिनां लोके कः परः प्रियवादिनाम् ॥ ५६ ॥ 6.61 कथमकार्यात् प्रतिषेधयेयुरित्याह - पानेत्यादिना । अभितश्चराः राजपार्श्ववर्त्तिनः । उपायैर्नालिकादिभिरिति । उक्तं हि "सुवर्णमाषकाश्चत्वारश्चतुरङ्गुलायामाः तत्प्रमाणकुम्भच्छिद्रेण जलाढकस्य यावता कालेन स्रुतिः स कालो ना- लिके” (कौटि. अर्थ. २-२०-३८) ति । आदिशब्दात् त्रिपौरुप्यादिच्छायापरिग्रहः। तैः पटहशब्दादिभिः व्यक्तैरुपायैः बोधयेयुरियमनुष्ठानान्तरवेला वर्त्तत इति ॥ ५२ ॥ अबोधने दोषमाह – राजानमित्यादि । अकृतात्मानः अकृतार्थत्वात् । पराभवं नाशं यान्ति ॥ ५३ ॥ तस्मान्मा भूत् पराभव इत्येवं प्रबोधयन्त उपासीरन् इत्याह - जयाज्ञापय देवेत्यादि । आज्ञामस्य प्रतीच्छन्त इति प्रबोधनफलमेतत्, अन्यथा ह्यप्रतिबोधितः कथं कार्याकार्येष्वाज्ञां प्रयच्छेत् ॥ ५४ ॥ सङ्क्षिप्ततरमनुजीविवृत्तमाह –- भर्त्तुरित्यादि । चित्तानुवर्त्तित्वं चित्तानुविधायित्वम् । रक्षांस्यपि हि गृह्यन्ते, किमुत तत्तुल्यधर्माणो मनुष्याः । छन्दः अभिप्रायः ॥ ५५ ॥ धीसत्त्वोद्योगयुक्तानामिति । अत्र धीः शास्त्रानुगा बुद्धिर्द्रष्टव्या, तया- १. 'जीवेति नाथ देवेति चा' ख-ग. पाठः. २. 'ज्ञां चास्य' ख-ग. पाठः. ३. मुपजी' क. पाठ:. ४. ‘माः कुम्भच्छिद्रमाढक्रमम्भसो वा नालि' मुद्रितकौटिलीयार्थशास्त्रपाठः.