पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६६ कामन्दकीय नीतिसारे [चतुर्थः सर्गः] यथान्तरात्मा प्रकृतीरधिष्ठितश्चराचरं विश्वमिदं समनुते ।

तथा नरेन्द्रः प्रकुतीरधिष्ठितश्चराचरं विश्वमिदं समश्नुते ॥ ७५ ॥

प्रकृतिभिरिति सम्यगन्वितो जनपदमादरवांस्तु पालयेत् । जनपदपरिपालनाच्चिरं ब्रेजति नृपः परमं श्रियः पदम् ॥ ७६ ॥ प्रकृतिगुणसमन्वितः सुधीर्व्रजति नृपः स्पृहणीयतां पराम् ।

स च भवति रणेषु विद्विषां श्वसन इव प्रबलः पयोमुचाम् ॥ ७७ ॥
( इति प्रकृतिसम्पद्यान सप्तमं प्रकरणम् )

इति कामन्दकीये नीतिसारे प्रकृतिसम्पन्नाम चतुर्थः सर्गः । केवलस्य राज्ञो न लोकभोगसामर्थ्यामिति दर्शयन्नाद - यथान्तरात्मेति । अन्तरात्मा अन्तर्यामी परः पुरुषः । स स्वयं निष्क्रियोऽपि यथा यदा प्रधानमहदादिभि (?) युज्यते तदा ब्रह्मादिस्तम्बपर्यन्तं त्रैलोक्यं देवादिभावेन समश्नुते, तथा राजाप्येकोऽसमर्थोऽमात्यादिप्रकृतियोगाल्लोकं समश्नुते ॥ ७५ ॥ तस्मात् किं कुर्यादित्याह - प्रकृतिभिरित्यादि ॥ ७६ ॥ तथा प्रकृतिगुणयोगाल्लोके स्पृहणीयो भवति, शत्रच्छेदाय च । यदाह- प्रकृतिगुणसमन्वित इत्यादि । रणेष्वित्युच्छेदनिमित्तम् | श्वसना वायुः ॥ ७७॥

( इति प्रकृतिसम्पन्नाम सप्तमं प्रकरणम् )

इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपचिकायां जयमभगलायां प्रकृतिसम्पन्नाम चतुर्थः सर्गः । १. 'स्पृशति' क. पाठः. २. 'प्रलय इव श्वसनः प' के. पाठः.