पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः सप्तमं प्रकरणम् ६५ औरसं मैत्रसम्बद्धं तथा देशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७१ ॥ शुचिता त्यागिता शौर्य समान सुखदुःखता । अनुरागश्च दाक्ष्यं च सत्यता च सुहृद्गुणाः ॥ ७२ ॥

तदर्थेहानुरागश्च सङ्क्षिप्तं मित्रलक्षणम् ।
यस्मिन्नैतन्न तन्मित्रं तत्रात्मानं न निक्षिपेत् ॥ ७३ ॥
इति स्म राज्यं सकलं समीरितं

परं प्रतिष्ठास्य धनं सुसाधनम् । गृहीतमेतन्निपुणेन मन्त्रिणा त्रिवर्गनिष्पत्तिमुपैति शाश्वतीम् ॥ ७४ ॥

मित्रभेदानाह— औरसमित्यादिना । तत्र कौटिल्येन त्रिविधं मित्रमुक्तं सहजं प्राकृतं कृत्रिमं च । इह तु शास्त्रकारेण सहजस्य द्विविधसम्बन्धख्यापनार्थ चतुर्विधमुक्तम् । तत्र यन्मातापितृसम्बद्धं, तत् सहजं तदेवान्तरेण सम्बन्धेन सम्बद्धमौरसं भवति । बाह्येन मैत्रीसम्बन्धेन वंशक्रमागतं मैत्रसम्बद्धम् । तथा देशक्रमागतमिति तत्सम्बद्धं, भूम्येकान्तरितत्वात् स्वराज्यप्रतिबद्धं प्रकृतिमित्रं भवति । रक्षितं व्यसनेभ्यः जीवितहेतोराश्रितत्वात् कृत्रिमम् ॥ ७१ ॥ एषां गुणानाह - शुचितेत्यादिना । समानसुखदुःखता एकार्थानर्थसम्बद्धत्वम् ॥ ७२ ॥ तदर्थेहानुरागश्चेति । यद् राजार्थं चेष्टते, चेष्टमानं च न विरज्यते, तदेव मित्रं ज्ञेयमित्यर्थः ॥ ७३ ॥ प्रकरणानुष्ठानफलमाह - इतीत्यादि । समीरितं परीक्षितम् । अस्य समीरितस्य धनं सुसाधनं प्रतिष्ठानहेतुत्वाद्, अन्यथा कोशहीनो निरुपायश्च कथमेतत् प्रतिष्ठापयेत् । प्रतिष्ठितमपि यदि बुद्धिमता मन्त्रिणा परिष्कृतं भवतेि, तदा राज्ञस्त्रिवर्गनिष्पत्तये भवति ॥ ७४ ॥ १. 'स' खन्ग. पाठः ३. 'तमपि त' ग घ पाठः.