पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [चतुर्थः त्यागविज्ञानसत्त्वाढ्यं महापक्षं प्रियंवदम् । आयतिक्षममद्वेष्यं मित्रं कुर्वीत सत्कुलम् ॥ ६६ ॥

* ( आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदेपदे । 

यायिन्यो न निवर्त्तिन्यः सतां मैत्र्यः सरित्समाः ॥ ) समुत्पन्नेषु कृच्छ्रेषु दारुणेष्वप्यसंशयम् । दर्शयेत् स्वच्छहृदयः कुलीनश्चतुरश्रताम् ॥ ६७ ॥ पितृपैतामहं नित्यमद्वैध्यं हृदयानुगम् ।

महलसमुत्थानं मित्रं कायार्थमिप्यते ॥ ६८ ॥ 

दूरादेवाभिगमनं स्पष्टार्थ हृदयानुगा । वाक् सत्कृत्य प्रदानं च त्रिविधो मित्रसंग्रहः ॥ ६९ ॥

धर्मकामार्थसंयोगो मित्रात् तु त्रिविधं फलम् ।

यस्मादेतत् त्रयं नास्ति तत् सेवेत न पण्डितः ॥ ७० ॥ मित्रसम्पदमाह - त्यागेत्यादिना श्लोकाष्टकेन । महापक्ष महाश्रयत्वादनुच्छेद्यम् । आयतिक्षमं स्थिरत्वादागामिकालं सहत इत्यर्थः । अद्वेप्यं लोकस्य ॥ ६६ ॥ सत्कुलमित्यस्य प्रयोजनमाह समुत्पन्नेष्वित्यादि । चतुरश्रतामवक्रताम् ॥ ६७ ॥ मा तावन्मित्रं सामान्येन कुर्वीत मित्रकार्यार्थम् । तत्र यदिष्यते, तदाह- पितृपैतामहमित्यादिना । नित्यम् अन्यत्रागमनात् । हृदयानुगं यथोक्तकारित्वात् । महत् तन्त्रबाहुल्यात् । लघुसमुत्थानम् अव्यासङ्गात् कार्यकालं नातिपातयति ॥ मित्रसङ्ग्रहोपायमाह — दूरादेवेत्यादिना । स्पष्टार्था यथावस्थितार्थावि- ष्करणात् । हृदयानुगा अपरुषत्वात् ॥ ६९ ॥ मित्रात् त्रिविधं फलमिति । सङ्गृहीतान्मित्रात् ॥ ७० ॥ १. 'ज्ञानवि' ख ग. पाठ.. २. 'एतत् ता' क ख ग घ पाठः.

  • धनुरेखाङ्कितं पद्यं ख-गयोः परं पठ्यते.