पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्त्तमं प्रकरणम् ।६३ मुक्ताकनकरत्नाढ्यः पितृपैतामहोचितः । धर्मार्जितो व्ययसहः कोशः कोशज्ञसम्मतः ॥ ६१ ॥

धर्महेतोस्तथार्थाय भृत्यानां भरणाय च ।

आपदर्थं च संरक्ष्यः कोश: कोशवता सदा ॥ ६२॥ पितृपैतामहो वश्यः संहतो दत्तवेतनः । विख्यातपौरुषो जन्यः कुशलः कुशलैर्वृतः ॥ ६३ ॥

नानाप्रहरणोपेतो नानायुद्धविशारदः ।
नानायौधसमाकीर्णो नीराजितहयद्विपः ॥ ६४ ॥ 

प्रवासायास दुःखेषु युद्धेषु च कृतश्रमः । अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदां मतः ॥ ६५ ॥

मुक्ताकनकरत्नाढ्यः तेषां महार्घाणामतिबाहुल्यादक्षयः । पितृपैतामहोचितः पूर्वक्रमागतत्वादक्लेशोपात्तः । धर्मार्जितः धान्यषड्भागादिना स हि परेषा - मनामिषभूतो भवत्यक्षयश्च । व्ययसहः दीर्घास्वप्यापत्सु । एवंविधो निर्दोषत्वात् कोशज्ञानां सम्मतः ॥ ६१ ॥ तस्य च पञ्च प्रयोजनानि । यदाह - धर्महेतोरित्यादि । अर्थाय अर्थान्तराय । कामोऽर्थप्राप्तः ॥ ६२ ॥ दण्डसम्पदमाह – पितृपैतामहो वश्य इत्यादिना श्लोकत्रयेण । वश्यः यथाज्ञीकरः । संहतः परेषामभेद्यः । दत्तवेतनः कृतसंविभागः । विख्यातपौरुषः अनेकयुद्धविजयित्वात् । जन्यः जानपदः । कुशलः शिल्पेषु । कुशलैर्वृतः शाखा- (स्याती ? स्थानी)यैः पुत्रपौत्रादिभिः ॥ ६३ ॥ 1 नानायुद्धविशारद इति । नानायुद्धं हस्त्यश्वादिभिः । नानायौधा निम्नस्थ- लखनकाकाशदिवारात्रयोधिनः । नीराजितहयद्विपः, ते हि शास्त्रोक्तविधिना नीराजिताः दैवमानुषीभिरापद्भिर्नाभिभूयन्ते ॥ ६४ ॥ आयासः कर्मसु व्यापारः । दुःखं शीतोष्णवर्षादिप्रभवम् । कृतश्रमः न सहसा श्राम्यति । अद्वैध्यः राज्ञः सहवृद्धिक्षयत्वात् । क्षत्रियप्रायः क्षत्रियाणां युद्धयोग्यत्वादितरेषामपि तत्सम्पर्कादुत्साहो भवति ॥ ६५ ॥ १. 'चि' इति मूलकोशेषु पाठः, २. 'ज्ञातक' ग. पाठः,