पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६२ कामन्दकीय [चतुर्थ औदकं पर्वतं वार्क्षमैरिणं धान्वनं तथा । शस्तं प्रशस्तमतिभिर्दुर्ग दुर्गोपचिन्तकैः ॥ ५७ ॥

जलान्नायुधयन्त्राढ्यं वीरयोधैरधिष्ठितम् । 

गुप्तिप्रधानमाचार्या दुर्गं समनुमेनिरे ॥ ५८ ॥

सापसाराणि दुर्गाणि भुवः सानूपजाङ्गलाः । 

निवासाय प्रशस्यन्ते भूभुजां भूतिमिच्छताम् ॥ ५९ ॥ बह्वादानोऽल्पनिःस्त्रावः ख्यातः पूजितदैवतः । ईप्सितद्रव्यसम्पन्नो हेयः स्वाप्तैरधिष्ठितः ॥ ६० ॥ तदेव चतुप्प्रकारं पूर्वाचार्यमतेन दर्शयति- औदकमित्यादि । धान्वनं निर्जलदेशभवम् । तच्चैरिणं निष्कूपम् । तच्च स्वसैन्योपयोगव्यतिरिक्तजलकूपाद्यभावात् परस्यागम्यं भवति ॥ ५७ ॥ सर्वोपसंहारेण निचयमाह --- जलान्नेत्यादिना । यन्त्रं सर्वतोभद्रादि । अधिष्ठितं स्थानान्तरितैः । गुप्तिप्रधानं गूढदेशबहुलम् ॥ ५८ ॥ सापसाराणीति । अपसरणस्थानयुक्तानि आपदि निवासाय, ततो हि क्षीणैनिचयस्यापसृत्य पुनः प्रतिविधानात् । सानूपजाङ्गला दुर्गभुवः प्रकृत्यवस्थायां निवासाय, तत्र हि जलस्थलगुणलाभात् ॥ १९ ॥ कोशसम्पदमाह --- बह्वादान इत्यादिना श्लोकत्रयेण । बह्वादानः आयद्वाराणां बहुत्वात् । अल्पनिःस्रावः व्ययद्वाराणामरूपत्वात् । ख्यातः लोके नाम्नैव परं भवति । पूजितदैवतः यत् तत्राधिदैवतं धनदादि, तत् प्रत्यहं पूज्यमानं वर्धयति । ईप्सितद्रव्यसम्पूर्णः कार्यकालं नातिपातयति । एवञ्च हृद्यः ईप्सितार्थसम्पन्नत्वात् । स्वाप्तैरधिष्ठितः स्वपरैर्न ह्रियते ॥ ६० ॥ ३. 'णसन्नि' ग घ पाठः. १. 'शस्त्राढ्य' क. पाठ:. २- ‘भृत्यैः स्वा’ ख-ग. पाठः.' ४. 'हृ' ग घ. पाठः. ५. 'नविधानात्' ङ-च, पाठः. ६. 'के सहि ना' ग घ च पाठः.