पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तमं प्रकरणम् । सानुरागो रिपुद्वेषी पीडाकरसहः पृथुः । नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् धनी ॥ ५३ ॥ ईदृग् जनपदः शस्तो मूर्खव्यसनिनायकः । तं बर्द्धयेत् प्रयत्नेन तस्मात् सर्व प्रवर्त्तते ॥ ५४ ॥

पृथुसीमे महाखातमुच्च प्राकारगोपुरम् ।
समावसेत् पुरं शैलं सरिन्मरुवनाश्रयम् ॥ ५५ ॥
जलवद् धान्यधनवद् दुर्गे कालसहं महत् । 

दुर्गहीनो नरपतिर्वाताभ्रावयवैः समः ॥ ५६ ॥ सानुरागः स्वामिप्रियत्वादापत्स्वपि न परवशसुपैति । रिपुद्वेषी न परेणातिसन्धास्यते । पीडा दण्डः । कर उचितादेयम् । पृथुर्विस्तीर्णः । नानादेश्यैः समाकीर्णः राज्ञः कोशवृद्धिं स्ववृद्धिं च जनयति । धार्मिकः यथास्वधर्माचारादनुच्छेद्यः । पशुमान् गोमहिष्यादिसम्पन्नत्वात् कर्षणाद्यङ्गमावहति । धनी स्फीतः ।। मूर्खव्यसनिनायक इति । नायको महत्तरः, स मूर्खो व्यसनी च यत्र, स हि यथाज्ञाकारित्वाद् यथेष्टभोग्यो भवति । तस्मात् सर्व प्रवर्तत इति । सर्व- कर्मणां योनित्वाज्जनपदस्येति ॥ ५४ ॥ दुर्गसम्पदमाह पञ्चभिः श्लोकः - पृथुसीमेत्यादि । पृथुसीम विस्तीर्णगोपुरद्वारम् । तत् पुनश्चतुर्विधम् । तत्र शैलं पर्वतदुर्ग, सरिदाश्रयमौदकं, मरुदेशाश्रयं धान्वनं, वनाश्रयं वार्क्षमिति ॥ ९५ ॥ तच्चानिचितनिचयमकिञ्चित्करमित्याह - - जलवदित्यादि । एवञ्च कृत्वा पराभियोगकालं सहत इति कालसहम् । वाताभ्रावयवैः समः निराश्रयस्य राज्या- दिनोच्छेदात् ॥ ५६ ॥ १. 'मं' क.. पाठः. २. 'लस' ख-ग. पाठः. ३. 'नं निर्ज (न? ल ) देशे भवं व' क-ख- गग्घ. पाठ:.