पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [चतुर्थ सस्याकरवती पण्यखनिद्रव्यसमन्विता । गोहिता भूरिसलिला पुण्यैर्जनपदैर्वृता ॥ ४९ ॥ रम्या सकुञ्जरवना वारिस्थलपथान्विता । अदेवमातृका चेति शस्यते भूर्विभूतये ॥ ५० ॥

शर्करोषपाषाणा साटवी नित्यतस्करा ।

रूक्षा सकण्टकवना सव्याला चेति भूरभूः ॥ ५१ ॥

स्वाजीवो भूगुणैर्युक्तः सानूपः पर्वताश्रयः ।
शुद्रकारुणिक्प्रायो महारम्भकृषीवलः ॥ ५२ ॥

-

भूमिगुणानाह – सस्याकरवतीत्यादिना । सस्यानामाकरः क्षेत्र, तद्वतीत्यर्थः । पण्यं व्यवहर्तव्यं जलजं स्थलजम् । खन्यत इति खनिः सुवर्णरजताद्याकरः । द्रव्यं सारदार्वादि नौरथाद्युपयोगि । पुण्यैः आर्यैः ॥ ४९ ॥ 1 कुञ्जरवनं, यत्र हस्तिन उत्पद्यन्ते । वारिपथः नावादिना । स्थलपथः खरोष्ट्रादिना । तदुभयं वाणिज्यनिबन्धनम् । अदेवमातृका, यत्र सेतुबन्धनप्रायत्वाद् वर्षनिरपेक्षा सस्यनिष्पत्तिः ॥ ५० ॥ दोषद्वारेण गुणानाह - सशर्करेत्यादिना । साटवी, अटवीशब्देन तात्स्थ्यादाटविकानाह । नित्यतस्करा चोरप्राया । रूक्षा मरुप्राया । सकण्टकवना श्वदंष्ट्रव्याघ्रादियुक्तत्वात् ॥ ५१ ॥ जनपदगुणानाह - स्वाजीव इत्यादिना । स्वाजीवः, सर्वप्रकारवार्तासम्भवात् । सानूप इति भूगुणयोगित्वात् सिद्धमेव, तत्र हि भूरिसलिलेति पठ्यते, पुनरुपादानं प्राधान्यार्थम् उदकप्रतिबद्धत्वात् सर्वारम्भाणामिति । पर्वताश्रयः तदाश्रयत्वान्न परेणाभिभूयते । शूद्रकारुवणिक्प्रायः कोशं वर्धयति । महारम्भकृषीवलः सस्यबाहुल्याद दुर्भिक्षव्यसनं हन्ति ॥ १२ ॥ 1. १. 'फलान्वि' क. पाठः. २. 'शर्करोषरपा' ख-ग. पाठः. '३. 'संयानादि' च. पाठः ४. 'शर्क' ग घ. पाठ: