पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सप्तमं प्रकरणम् ।५९ सज्जमानमकार्येषु सुहृदो वारयन्ति ये । सत्यं न ते हि सुहृदो गुरवो गुरवो हि ते ॥ ४३ ॥

कृतविद्योऽपि बलिना व्यक्तं रागेण रज्यते । 

रागोपरक्तचित्तः सन् किं न कुर्यादसाम्प्रतम् ॥ ४४ ॥ पश्यन्नपि भवत्यन्धः पुमान् रागावृतेक्षणः ।

सुहृद्वैद्याश्चिकित्सन्ति निर्मलैर्विनयाञ्जनैः ॥ ४५ ॥ 

रागमानमदान्धस्य स्खलतः पृथिवीपतेः ।

हस्तावलम्बी भवति सुहृत्सचिवचेष्टितम् ॥ ४६ ॥
मदोद्वृत्तस्य नृपतेः सङ्कीर्णस्येव दन्तिनः । 

गच्छन्त्यन्यायवृत्तस्य नेतारः खलु वाच्यताम् ॥ ४७ ॥

भूगुणैर्वर्द्धते राष्ट्रं तह्रद्धिर्नृपवृद्धये ।

तस्माद् गुणवतीं भूमिं भूत्यै नृपतिरावसेत् ॥ ४८ ॥

गुरवो गुरव इति । तदानीं मित्रपदादपरं गुरुपदं प्राप्नुवन्ति । तच्च महदित्यर्थः ॥ ४३ ॥ कथमकार्येषु राजा सज्जत इत्याह--- कृतविद्योऽपीति । किमुताकृतविद्य आत्मना रक्तचित्तः । रागेण कामेन । असाम्प्रतम् अयुक्तम् अकार्यमिति यावत् । किं न कुर्यात् पश्यन्नपि रागान्धत्वात् ॥ ४४ ॥ यदाह - पश्यन्नपि भवत्यन्ध इति || ४५ || यथा रागोऽन्धीकरोति, तथा मानमदावपीत्याह - रागमानमदान्धस्येत्यादि । अरिषड्वर्गोपलक्षणमेतत् । स्खलतः स्वमार्गात् । हस्तावलम्बः हस्तावष्टम्भः। सुहृत्सचिवचेष्टितं स्निग्धमन्त्रिप्रतिसमाधानम् ॥ ४६ ॥ यदि च ते स्खलन्तं न प्रतिसमादधति, तदा लोके वचनीयतामापद्यन्ते, यदाह -मदोद्वृत्तस्येत्यादि । सङ्कीर्णस्य अविशुद्धजातेः । नेतारो मन्त्रिणः, अन्यत्र शिक्षाग्राहकाः ॥ ४७ ॥ राष्ट्रसम्पदमाह - सप्तभिः श्लोकैः । भूगुणैरित्यादि । राष्ट्रं जनपदः । तद्दृद्धिर्नृपवृद्धये जनपदस्य सर्वकर्मयोनित्वाद् ॥ ४८ ॥ १. 'तस्तु सन् क. पाउः. २. 'द्वतस्य' क. पाठः. ३. 'भूपतिराविशेत्' क. पाठः. ४. 'तदा' क ख ग घ पाठः.