पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५८ कामन्दकीय नीतिसारे [चतुर्थः सज्जमानमकार्येषु निरुन्ध्युर्मन्त्रिणो नृपम् ।

गुरूणामपि चैतेषां शृणुषानृपतिर्वचः ॥ ३९ ॥ 

नरेश्वरे जगत् सर्व निमीलति निमीलति । सूर्योदय इवाम्भोजं तत्प्रबोधे प्रबुध्यते ॥ ४० ॥ तद् बोधयेज्जगन्नाथं संबुध्येत यथा तथा ।

धीसत्त्वोद्योगसम्पन्नैस्तत्कार्य तदुपाश्रितैः ॥ ४१ ॥
नृपस्य ते हि सुहृदस्त एव गुरवो मताः ।
य एनमुत्पथगतं वारयन्त्यनिवारिताः ॥ ४२ ॥

अत्र बुद्धिसचिवस्य प्राधान्यात् तद्व्यापारमाह - नवभिः श्लोकैः : सज्जमान- मित्यादिभिः । निरुन्ध्युः चारयेयुः । एतेषां वचः शृणुयाद्, अन्यथा तान् किमर्थं संगृह्णीयात् ॥ ३९ ॥ यदि ते न निरुन्ध्युस्तदा को दोष इत्याह--- नरेश्वर इत्यादि । अकार्यान्धीकृतत्वाद् राज्ञि निमीलति सति जगन्निमीलति अनुष्ठाने सीदतीत्यर्थः । तत्प्रबोध इति । राज्ञः कार्याकार्यालोचनेन प्रबोधे सति प्रबुध्यते स्वधर्मकर्मसु प्रवर्तत इत्यर्थः ॥ ४० ॥ तद् वोधयेदिति । तस्माद् राजानं बोधयेत् । मन्त्रिगण इति शेषः । सम्बुध्येत यथा राजा, तथा कार्यमिति सम्बन्धः । धीसत्त्वोद्योगसम्पन्नैः अन्यगुणविकलैरपि । तदिति कार्ये प्रवर्तनमकार्याद्व्यावर्तनं चेत्यर्थः ॥ ४१ ॥ एवञ्चानुतिष्ठमानाः परेऽपि त एव सुहृदो गुरवश्चास्य भवन्ति, यदाह-- नृपस्य ते हीत्यादि । अनिवारिताः स्वतन्त्राः ॥ ४२ ॥ १. 'कार्य तत् तत्समाश्रितैः क. पाठः. २. 'तद्वच: कि' क- ख. पाठः ३. न्त्राः त एव गुरवो मताः इति ॥ ' क ख ग घ पाठः.

  • अनुतिष्ठमाना इंति ताच्छील्ये

चानश्.