पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] सप्तमं प्रकरणम् । उत्साहं च प्रभावं च तथा क्लेशसहिष्णुताम् ।

धृतिं चैवानुरागं च स्थैर्य चापदि लक्षयेत् ॥ ३५ ॥ 

भक्तिं मैत्री च शौचं च जानीयाद् व्यवहारतः ।

संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च ॥ ३६ ॥ 

अस्तब्धतामचापल्यं वैराणां चाप्यकर्तृताम् । प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि ॥ ३७ ॥

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।

तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥ ३८ ॥ . आपदि लक्ष१७येदिति। आपत्काले उत्साहादींस्तर्कयेत् । तद्यथा - योऽस्यामापदि न विषीदति, न मन्दप्रभावः क्लेशांश्च सहते, सोऽन्यदापि कर्माण्यारभत इति । धृतिं चैवानुरागं च स्थैर्ये चापदीति । अनुरागः प्रागुद्दिष्टः “सानुरागाः कृताकृतमि”(स. ४. श्लो. २५) त्यत्र । अन्तरे यो न स्याद् दुर्मनाः, न विरज्यते, न त्यजति, सोऽन्यदापि सुतरां तथैवेति ॥ ३५ ॥ व्यवहारत इति । संव्यवहाराद् दृढभक्तित्वादीनि तर्कयेत् । यथेह महत्सु कार्येषु यो न भ्रश्यति, न द्वेष्टि, नार्थशीलो वा भवति, तस्यैते गुणा इत्यनुमानसन्दर्शनम् । संवासिभ्य इति । तत्सहोषितेभ्यो बलादीन्यतर्कणीयान्यागमयेत् ॥ ३६ ॥ अस्तब्धतामचापलं च संवासिभ्य एवेत्यागमप्रदर्शनम् । वैराणामकर्तृतामकरणम् । भद्रतां लोकप्रियतां प्रत्यक्षत एवं जानीयात् । भद्रतागुणश्च "अक्षुद्रपरिवारते”(स. ४. श्लो. ७) त्यत्र समुद्दिष्टः । तद्विपर्ययेण क्षुद्रतापीह निर्दिष्टा । स हि प्रधानत्वादन्वयव्यतिरेकाभ्यां परीक्षणीय इति ॥ ३७ ॥ परोक्षगुणवृत्तय इति । येषां गुणवृत्तिरन्यतः श्रुता, तेषां स्वनिश्चयर्थं पुनः कर्मभिरनुमातव्या, कर्म फलैरिति ॥ ६८ ॥ १. 'यार्थ क' कख, पाठः