पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

६६ कामन्दकीयनीतिसारे [ चतुर्थः त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः । अथर्ववहितं नित्यं कुर्याच्छान्तिकपौष्टिकम् ॥ ३१ ॥ साधु तेषाममात्यानां तद्विद्येभ्यश्च बुद्धिमान् । चक्षुष्मत्तां च शिल्पं च परीक्षेत गुणद्वयम् ॥ ३२ ॥ स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहम् ।

परिकर्मसु दाक्ष्यं च विज्ञानं धारयिष्णुताम् ॥ ३३॥
गुणत्रयं परीक्षेत प्रागल्भ्यं प्रतिभां तथा ।
कथायोगेषु बुध्येत वाग्मित्वं सत्यवादिताम् ॥ ३४ ॥

पुरोहितस्याप्यमात्य विशेषत्वाद् वैशेषिकममात्यकार्यमित्याह - त्रय्यामि - त्यादि । " अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकमि" त्यनेनैवाथर्ववेदाध्ययनस्य सिद्धत्वात् त्रयीशब्दः, त्रय्यन्तर्भावपक्षेणाथर्ववेदस्य तद्वचनो वा, दण्डनीतिवत् समुच्चयार्थो वा । शान्तिकपौष्टिकं राज्ञः । तथाहि —पुरो धीयते नियुज्यते दृष्टा- दृष्टेविति पुरोहितः ॥ ३१ ॥ 1 कथममात्यगुणा ज्ञेया इति चेत् प्रमाणत्रयात् । राज्ञां हि प्रत्यक्षपरोक्षानुमानानि त्रीणि प्रमाणानि । यथोक्तं "प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः । स्वयं दृष्टं प्रत्यक्षं, परोपदिष्टं परोक्षं, कर्मसु कृतेनाकृतावेक्षणमनुमेयमि" (कौटि. अर्थ. १-९-५)ति । तदेव दर्शयति - साधु तेषाममात्यानामित्यादि । तद्विद्येभ्यस्तु बुद्धिमानिति । तद्विद्येभ्यः तुल्यशास्त्रशिल्पविद्येभ्यः । स्वयमपि तद्विद्यः चक्षुष्मत्तां शिल्पं च परीक्षेत गुणद्वयं, समानविद्येभ्य आगमयेदित्यर्थः ॥ ३२ ॥ स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहमिति । स्थानं जनपदः, स्वजना (दि ? हि) विशेषेण कुलादीन् जानन्ति । एभ्य एवागमयेदित्यागमप्रदर्शनमेतत् । परिकर्मसु दाक्ष्यं च विज्ञानं धारयिष्णुतां गुणत्रयं परीक्षेतेति सम्बन्धः । दाक्ष्यं दुर्गादिकर्मस्वनालस्यम् । विज्ञानं प्रज्ञयापूर्वव्युत्पादनम् । धारयिष्णुता इदं कृतमिदं कार्य चेति । अतोऽन्यदनुभवादेव, न तर्कागमाभ्यां जानीयात् ॥ ३३ ॥ प्रागल्भ्यं प्रतिभां तथा । कथायोगेषु बुध्येत वाग्मित्वं सत्यवादितामिति कथाप्रस्तावेषु प्रागल्भ्यादीननुभवादेव जानीयादिति प्रत्यक्षं दर्शनमेतत् ॥ ३४ ॥

१. सह बु' ख-ग. पाठः. २. 'जु' ख- ग. पाठः. ३. 'ताकृत परीक्षणमनुमानं' क- ख-ग-घ-ड. पाठः ४ 'नांत' ग घ पाठ.. ५. 'ल्यशास्त्रविद्येभ्यः शा' क-ख. पाठः. 'दः तत् स्व' कन्ग. पाठः,