पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] सप्तमं प्रकरणम् ! स्ववग्रहो जानपदः कुलशीलबलान्वितः । वाग्मी प्रगल्भचक्षुष्मानुत्साही प्रतिपत्तिमान् ॥ २७ ॥ स्तम्भचापलहीनश्च मैत्रः क्लेशसहः शुचिः । सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः ॥ २८ ॥ कृतशिल्पश्च दक्षश्च प्रज्ञावान् धारणान्वितः ।

दृढभक्तिरकर्त्ता च वैराणां सचिवो भवेत् ॥ २९ ॥ 

स्मृतिस्तत्परतार्थेषु वितर्कों ज्ञाननिश्चयः । दृढता मन्त्रगुप्तिश्च मन्त्रिसम्पत् प्रकीर्त्तिता ॥ ३० ॥ स्ववग्रह इत्यादिना समुचितगुणानाह । जानपदः, नाटव्यां भवोऽनार्यकर्मा । स्वजनपदप्रभवो वा, न परजनपदप्रभवः, स हि संवासात्तत्तत्प्रतिपादनशीलो भवति । कुलान्वितः ब्राह्मणोऽन्यो वा, कुलपुत्रत्वान्न व्यभिचरति । चक्षुप्मानिति । चक्षुः शास्त्रं तद्वान्, विशुद्धदर्शनत्वान्नोत्पथं प्रतिपद्यते । प्रतिपत्तिमान् भयस्खलिते वाशु प्रतिविधाता ॥ २७ ॥ "मैत्र इति मित्रेषु कुशलः, मित्रार्जनकुशल इत्यर्थः । क्लेशसहः शीतोष्णादिदुःखसहः । धृतिः सौमनस्यम् । स्थैर्यमन्यत्रागमनम् । प्रभावः प्रभुत्वम् । आरोग्यं दोषधातूनां साम्यं कर्माङ्गम् ॥ २८ ॥ धारणान्वितः धारयिष्णुः, तस्याः प्रज्ञागुणत्वात् पुनरुपादानं प्राधान्यार्थम् । अकर्ता वैराणां प्रतिकर्ता विरोधानाम् । शेषाः पूर्वं व्याख्याताः ॥ २९ ॥ 1 एते गुणा बुद्धिसचिवानां कर्मसचिवानां च साधारणाः । बुद्धिसचिवस्य तु प्राधान्येन विशेषमाह -- स्मृतिरित्यादिना । स्मृतिरनेकवर्षान्तरितेष्वप्यविस्मरणम् । तत्परतार्थेषु दुर्गादिषु सन्ध्यादिषु च कार्येष्वैदम्पर्यम् । वितर्को विचारः । सर्वज्ञाननिश्वयः एवमेवैतन्नान्यथेति । दृढता यत्कार्यं प्रस्तुतं, तत्र दार्ढ्यम् । मन्त्रगुप्तिः आ कार्यसिद्धेः ॥ ३० ॥ १. 'तिभारो' ख-ग. पाठ:.