पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५४ कामन्दकीय नीतिसारे [चतुर्थ: उपधाशोधिताः सम्यगीहमानाः फलोदयम् । तेऽस्य सर्व परीक्षेरन् सानुरागाः कृताकृतम् ॥ २५॥ उपेत्ये धीयते यस्मादुपधेति ततः स्मृता ।

उपाय उपधा ज्ञेया तयामात्यान् परीक्षयेत् ॥ २६ ॥

ते च राज्ञः किं कुर्युरित्याह - उपवाशोधिता इति । शुचयोऽप्युपधाभिः परीक्षणीयाः । उक्तञ्च “चित्तानित्यत्वान्मनुष्याणाम् । अश्वसधर्माणो हि मनुष्याः कर्मसु नियुक्ता विकुर्वत" (कौटि. अर्थ. २-९-२७) इति । इहमानाः फलोदयं राज्ञः । कृताकृतं कार्यम् ॥ २५ ॥ केयमुपधेत्याह--- उपेत्य धीयत इति । भावपरीक्षणार्थमुपेत्य धीयते स्फटिकमणिवद् रागेणोपधीयत इत्युपधा उपायः धर्माद्यालम्बना उपजापक्रिया । तयामात्यान् परीक्षेत सामान्येष्वधिकरणेषु स्थापयित्वा । तथा चोक्तं " मन्त्रिपुरो- हितसखः सामान्येप्वधिकरणेषु स्थापयित्वामात्यानुपधाभिः शोधयेत् । पुरोहित- मयाज्ययाजनाध्यापने नियुक्तम् अमृष्यमाणं राजावक्षिपेत् । सन्त्रिभिः शपथ- पूर्वमेकैकममात्यमुपजापयेद्, अधार्मिकोऽयं राजा, साधुधार्मिकमन्यमस्य · कुलीन- मवरुद्धं, कुल्यमेकप्रग्रहं सामन्तमाटविक्रमौ पायिकं वा प्रतिपादयामः, सर्वेषामेतद् रोचते, कथं वा तवेति । प्रत्याख्याने शुचिरिति धर्मोपधा । सेनापतिरसत्प्रग्रहणो- पक्षिप्तः । सत्रिभिः शपथपूर्वमेकैकममात्यमुपजापयेत् लोभनीयेनार्थेन राजविनाशाय, सर्वेषामेतद् रोचते, कथं वा तवेति । प्रत्याख्याने शुचिरित्यर्थोपधा । प्रव्राजिका लब्धविश्वासान्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजापयेत्, राजमहिषी त्वां कामयते कृतसमागमोपाया, महानर्थश्च ते भविष्यतीति । प्रत्याख्याने शुचिरिति कामोपधा । प्रवहणनिमित्तमेकोऽमात्यः सर्वानमात्यानावाहयेत् । तेनोद्वेगेन राजा तानवरुन्ध्यात्, कापटिक श्चात्र पूर्वावरुद्धस्तेषामर्थमानावक्षिप्तमेकैकममात्यमुपजापयेत्, असत्प्रवृत्तोऽयं राजा, सहसैनं हत्वान्यं प्रतिपादयामः, सर्वेषामेतद् रोचते, कथं वा तवेति । प्रत्याख्याने शुचिरिति भयोपधे" (कौटि. अर्थ. १- १०-६.) ति ।। २६ । १. ' राज्ञः स क. पाठः. २. "त्या" क. पाठः. ३. 'कममात्यमु' क-ख. पाठः.

  • 'शौचये' 8 'स्य तत्कु' + 'पवादिक' * 'हेणावक्षि' 8 'जपेत्' 'छात्रः पू' 'जपेत् ' 'साध्वेनं' इति मुद्रितकौटिलीयार्थशास्त्रपाठाः,