पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तमं प्रकरणम् | आत्मसम्पद्गुणैः सम्यक् संयुक्तं युक्तकारिणम् । महेन्द्रमिव राजानं प्राप्य लोको विवर्द्धते ॥ २० ॥

शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । 

ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ २१ ॥

दाक्ष्यं शैघ्र्यं तथामर्षः शौर्य चोत्साहलक्षणम् ।
गुणैरेतैरुपेतः सन् राजा अवितुमर्हति ॥ २२ ॥ 

त्यागः सत्यं च शौर्ये च त्रय एते महागुणाः । प्राप्नोति हि गुणान् सर्वानेतैर्युक्तो महीपतिः ॥ २३ ॥

कुलीनाः शुचयः शूराः श्रुतवन्तोऽनुरागिणः ।
दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्महीपतेः ॥ २४ ॥

युक्तकारिणं यथासमीहितफलसम्पादनात् ॥ २० ॥ ५३ युद्ध्युत्साहावुक्तौ, तौ किंलक्षणावित्याह-शुश्रूषेत्यादि । श्रवणार्हेषु श्रोतुमिच्छा शुश्रूषा । तस्यां सत्यां श्रवणमासेवा । श्रुतानामर्थानामवधारणं ग्रहणम् । धारणं ग्रहीतानामविस्मरणम् । धारितेष्वर्थेषु विविधसाध्यसाधनस्वरूपविवेकविज्ञा- नमर्थविज्ञानमिति धारणानन्तरं द्रष्टव्यम् । श्लोकानुरोधात् तत्र न पठितम् । तथा चोक्तं "शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोह तत्त्वाभिनिवेशा" (कौटि. अर्थ. ६- १-९६) इति । ज्ञातेष्वर्थप्राप्तस्योल्लिङ्गनमूहः, अयुक्तियुक्तस्य त्यजनमपोहः । वस्तुस्वभावनिर्णयस्तत्त्वज्ञानम् ॥ २१ ॥ दाक्ष्यमनालस्यम् । शैत्र्यं क्षिप्रकारिता । कश्चिदलसोऽपि त्वरयैकं कर्म - कृत्वा श्राम्यति, दक्षस्त्वविश्रान्तोऽन्यच्चारभते । अमर्षः परिभवासहिष्णुता । गुणैरेतैरुपेतः सन् राजा भवितुमर्हति मन्त्रोत्साहशक्त्योः प्रधानत्वात् ॥ २२ ॥ त्यागः सत्यं च शौर्य चेति । एवं मन्यते - त्यागादाश्रयेप्सुभिस्तावदभिगम्यते, सत्यव्रतत्वात् स्वमण्डलस्य पालयिता, शौर्यात् तु लब्धप्रतापः परमण्डलस्य विजेतेति सर्वमुपपन्नं, यतः परिशिष्टानां गुणानामेतावदेव प्रयोजनम् ॥ २३ ॥ अमात्यसम्पदमाह---- चतुर्विंशत्या श्लोकैः । कुलीना इत्यादि । तत्रान्यगुणाभावेऽपि कुलीनत्वादिभिः षड्भिर्गुणैर्युक्ता अमात्याः स्युः । अनुरागिणः स्वामिनि । दण्डनीतेः प्रयोक्तार इति । शेषविद्याव्यापाराणामन्त्रैव प्रतिष्ठानात् साक्षात् तद्वचनम् ॥ २४ ॥