पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५२ कामन्दकीय नीतिसार चतुर्थः गूढमन्त्रप्रचारश्च देशकालविभागविद् । आदाता सम्यगर्थानां विनियोक्ता च पातविद् ॥ १६ ॥ क्रोधलोभभयद्रोहस्तम्भचापलवर्जितः । परोपतापपैशुन्यमात्सर्येर्ष्यानृतातिगः ॥ १७ ॥ वृद्धोपदेशसम्पन्नः श्लक्ष्णो मधुरदर्शनः ।

गुणानुरागी मितवागात्मसम्पत् प्रकीर्त्तिता ॥ १८ ॥
इत्यादिगुणसम्पन्ने लोकयात्राविदि स्थिरे । 

निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ॥ १९ ॥ गूढमन्त्रप्रचारः मन्त्रणकाले प्रयोगकाले च । देशकालविभागविद् अश्वबलप्रायोपदेशं वर्षासु न यायादित्यादिना । आदाता सम्यगर्थानां न्यायेनेत्यर्थः । विनियोक्ता चार्थानां पात्रवित्त्वात् ॥ १६ ॥ क्रोधोsस्थाने, लोभो न्यायादन्यत्र वस्तुनि, भयम् अकार्यकरणादन्यत्र, द्रोहो जिघांसा, स्तम्भो मानः, चापलम् अविमृश्यकारिता । परोपतापः परस्य पीडनं, पैशुन्यं परस्परभेदनम् । मात्सर्य परेष्वसंविभागशीलता, ईर्ष्या परगुणा- क्षमा, सत्यमिति सिद्धे पुनरनृतग्रहणमुभयत्राङ्गभावप्रतिपत्त्यर्थम् ॥ १७ ॥ वृद्धोपदेशसम्पन्नः वृद्धोक्ताचरणात् । श्लक्ष्णः मधुरवादी । मधुरदर्शनः भ्रूनेत्रविकाराभावात् । गुणानुरागी आश्रितेषु । मितवाग् मितभाषी ॥ १८ ॥ अत्यन्तादरार्थं पुनः स्वामिसम्पदः प्रयोजनं दर्शयति - इतीत्यादिना श्लोकद्वयेन । आदिशब्देन ह्रीमा (नना) दीनाभिभाषि (त्व) दूरदर्शित्वादयो गुणा द्रष्टव्याः । लोकयात्राविदि गुणसम्पन्नत्वादेव । एवञ्चकृत्वा स्थिर इत्यपि विशेषणमर्थवद् भवति । पितरीव प्रियहितकरणात् ॥ १९ ॥ १. 'शास्त्र' क. पाठः. २. 'पसेवास' ख-ग. पाठः. ३. 'शक्तो म' खन्ग, पाठः, ४. 'स्मित' क. पाठः. ५. 'प्रियवा' ग घ पाठः ६. 'न श्रीमा' क-ख. पाठः.