पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वर्गः: 1 सप्तमं प्रकरणम्ः । निरुन्धानाः सतां मार्ग भक्षयन्ति महीपतिम् ।

दुष्टात्मानस्तु सचिवास्तस्मात् सुसचिवो भवेत् ॥ १२ ॥
विभूतीः परभाः प्राप्य सतां सम्भोग्यतामियात् ।

यासु सन्तो न तिष्ठन्ति ता वृथैव विभूतयः ॥ १३ ॥ वाग्मी प्रगल्भः स्मृतिमानुदनग्रो बलवान् वशी ।

नेता दण्डस्य निपुणः कृतविधः स्ववग्रहः ॥ १४ ॥ 

पराभियोगप्रसहः सर्वदृष्टप्रतिक्रियः । परच्छिद्रान्ववेक्षी च सन्धिविग्रहतत्त्वविद् ॥ १५ ॥ मार्गमिति प्रवेशम् । भक्षयन्तीति । तमवगृह्य दुष्टात्मानः स्वार्थं कुर्वन्ती- त्यर्थः ॥ १२ ॥ परमाः उत्कृष्टाः स्वपरोपकारहेतुत्वात् । सम्भोग्यतां व्रजेद दुष्टपरिवार- त्यागेन ॥ १३ ॥ आत्मोपकारिणो गुणानाह--- वाग्मीत्यादिना श्लोकपञ्चकेन । वाग्मी वाक्- सौष्ठवयोगान स्वपरैरतिसन्धीयते । प्रगल्भः सदसि निगृह्य वक्ता । स्मृतिमान- विस्मरणशीलः | बुद्धिगुणत्वात् पुनरुपादानमाभिगामिकात्मगुणयोरुभयोरप्यङ्गभावं प्रतिपद्यते बुद्धिरिति ज्ञापनार्थम् । उदग्रो महाप्रमाणः परेषामनभिभवनीयो भवति । बलवान् युद्धाध्वलङ्घनादिक्रियासमर्थः । वशी जितेन्द्रियः । ' विनीते 'ति सिद्धे पुनर्वचनमुभयत्राङ्गभावप्रतिपत्त्यर्थम् । नेता दण्डस्येति । स्वव्यसने परव्यसने वा चतुरङ्गस्य बलस्य प्रयोक्ता । निपुणः पण्यादिव्यवहारेषु गीतनृत्तादि बा । कृतविद्यः शिक्षितशास्त्रः । स्ववग्रहः प्रमादादकार्यप्रवृत्तः सुखेन निवर्त्यते ॥ १४ ॥ पराभियोग प्रसहः न सहसा विषीदति । सर्वदृष्टप्रतिक्रियः सर्वत्रोपनिपातेऽपीदं प्रतिविधातव्यमिति निश्चितार्थः । परच्छिद्रान्ववेक्षी च परप्रणिधानात् । सन्धिविग्रहतत्त्वविद् अवस्थाया बलाबलभेदवेदनात् ॥ १५ ॥ १. 'नराधिपम् ' खग, पाठः २. 'क्रूरात्मा' खभा पाठः ३० 'शिल्पः स्व' खा. पाठः, 22880