पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[चतुर्थः कमन्दकी नीतिसारे दीर्घदशित्वमुत्साहः सुचिता स्थूललक्षता ।- विनीतता धार्मिकता गुणाः साध्वाभिगामिकाः ॥ ८॥ गुणैरेतैरुपेतः सन् सुव्यक्तमभिगम्यते । तथा तु कुर्वीत यथा गच्छेोकाभिगम्यताम् ॥ ९ ॥ प्रख्यातवंशमक्रूरं लोकसङ्ग्रहिणं शुचिम् । कुर्वीतात्महिताकाङ्क्षी परिवारं महीपतिः ॥ १० ॥ दुष्टोऽपि भोग्यतामेति परिवारगुणैर्नृपः । न दुष्टपरिवारस्तु व्यालाक्रान्त इव द्रुमः ॥ ११ ॥ पूर्वोत्पन्नकार्यविभागज्ञानेन दीर्घकालभाव्यर्थानुमानाद् दीर्घदर्शी, ह्यना- गतवस्त्वपेक्षया प्रवर्तते, न सँहसेत्यभिगन्यते । शौर्यादिगुणोपेतत्वादुत्साहवान् सर्वैराश्रीयते, तथा शुचिः धर्मादिषु शुद्धचित्तत्वात् । महेच्छोऽयमिति स्थूललक्षो विजिगीषुभिरभिगम्यते । विनीतता जितेन्द्रियता, अन्यथा ह्यविनीत इत्यारिपि त्यज्यते, किमुताश्रयेप्युभिरभिगम्यते । धार्मिकः स्वधर्माचरणान्नोत्पथं प्रतिपद्यत इति साधुभिरभिगम्यते । साध्वाभिगामिका इति । सुष्टु अभिगमाय प्रभवन्ति ॥८॥ यदाह --- गुणैरिति । तथा कुर्वीत गुणाधानं तु प्राधान्येन कुर्यात्, यथा लोकेनाभिगमनीयः स्यात् ॥ ९ ॥ अक्षुद्रपरिवारतामाह — प्रख्यातवंशमित्यादि । अक्रूरम् अपापाशयम् । लोकसंग्राहिणं गुणवतामबकाशदायिनम् । शुचिम् उपधाशुद्धं कुर्वीत परिवारं यथोदितगुणचतुष्टययुक्तस्याक्षुद्रत्वात् ॥ १० ॥ क्षुद्राक्षुद्र परिवारताया दोषगुणावाह - दुष्टोऽपीत्यादिना श्लोकत्रयेण । दुष्टपरिवारस्त्विति क्षुद्रपरिवार इत्यर्थः ॥ ११ ॥ १. 'ध्या' क. पाठ:. २. 'च' मूलकोशेषु पाठः, ३. 'ग्रहणम्' क. पाठः. ४. 'क्रूरोऽपि' मूलकोशेषु पाठः. ‘क्रूरप’ ख.ग. पाठः. ६. 'साहसीत्य' क ख ग घ ङ. पाठः. ७. 'व' ग-घ. पाठ..