पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] सप्तमं प्रकरणम् ।४९ लोकाधाराः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्कृते ॥ ५ ॥

कुलं सत्त्वं वयः शीलं दाक्षिण्यं क्षिप्रकारिता । 

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ॥ ६ ॥ दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता । शक्यसामन्तता चैव तथा च दृढभक्तिता ॥ ७ ॥

लोकाधाराः लोकपरिपोषिकाः । दुष्परिग्रहाः प्राप्ता अपि दुःखेन परिपाल्यमानत्वात् । संस्कृते गुणवति ॥ ६ ॥ ते च गुणा आश्रितात्मोपकारिभेदाद् द्विविधाः । तत्राश्रितोपकारिण उच्यन्ते -- कुलमित्यादिना श्लोकत्रयेण । तत्र राजबीज्ययमिति कुलीनः सर्वैरेवाश्रये - प्सुभिरभिगम्यते । तथा व्यसनेऽभ्युदये चायमविकारीति सत्त्ववान् । युवा सा- ध्योपायकर्मसमर्थः प्रतिष्ठितश्चेति तदवस्थोऽभिगम्यते, नतु बालो वृद्धो वा अ- प्रतिष्ठानादसामर्थ्याच्च । सुस्वभावोऽयमिति शीलवान् । अनुकूलोऽयमिति दाक्षि- ण्यवान् आश्रीयते । क्षिप्रकारिता अदीर्घसूत्रता । उत्साहगुणत्वात् पुनरुपादानं प्राधान्यार्थ, तथाहि कालानतिपातित्वात् कार्यार्थिभिरभिगम्यते । अविसंवादिता सत्यमिति । यद् ब्रवीति तदवश्यं करिष्यतीति सत्यवानाश्रीयते । तत्र सत्यवागपि कश्चित् छलेनातिसन्धत्ते, यथा सुवर्ण ते दास्यामीति कर्षे प्रतिज्ञाय माषं ददाति, नैवमयमित्यविसंवादी । साङ्कुशोऽयमिति वृद्धोपसेवी समाश्रीयते । उपकृतमत्र न नश्यतीति कृतज्ञोऽभिगम्यते ॥ ६ ॥ स्वल्पेनापि पौरुषेणाप्रतिहतार्थसिद्धित्वाद् दैवसम्पन्नो दैवोपहतैः सुतरामभिगम्यते । मन्त्रशक्तियुक्तत्वान्न परेणातिसन्धीयत इति बुद्धिमानाश्रीयते । अदुष्टपरिवारत्वात् सेव्योऽयमित्यक्षुद्रपरिवारो गुणवद्भिराश्रीयते । दुर्बलसामन्तत्वादय- मनुच्छेद्य इति शक्यसामन्त आश्रयेप्युभिरभिगम्यते । स्थिरस्नेहोऽयं न हरिद्रा- रागवद् विरज्यत इति दृढभक्तिः सद्भिराश्रीयते ॥ ७ ॥ १. शीलं वयः सत्त्वं दा' ख-ग. पाठः.. ग घ ङ. पाठ:. ४. 'माषकं द' गन्घ. पाठः. २. 'चैव खग. पाठः. ५. 'वृद्धसे' ग घ. पाठः. ३. 'वयःस्थो' ख-