पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ चतुर्थः सर्गः । [चतुर्थः

  • ७ प्रकृतिसम्पत्प्रकरणम्

स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहत् । परस्परोपकारीं सप्ताङ्गं राज्यमुच्यते ॥ १ ॥ एकाङ्गेनापि विकलमेतत् साधु न वर्त्तते । तस्य सामग्रयमन्विच्छन् कुर्वीताशुं परीक्षणम् ॥ २ ॥

आत्मानमेव प्रथममिच्छेद् गुणसमन्वितम् । 

कुर्वीत गुणसम्पन्नस्ततः शेषपरीक्षणम् ॥ ३ ॥ साधु भूतलदेवत्वं दुर्धार्यमकृतात्मभिः ।

आत्मसंस्कारसम्पन्नो राजा भवितुमर्हति ॥ ४ ॥

यथा सद्वृतेनात्मसात्कृतो लोको न भिद्यते, तथा राज्यमपि गुणतः परीक्षितं न विश्लेषमेति । विश्लिष्टमपि समग्रीभवति । तस्मात् तत्परीक्षणार्थं प्रकृतिसम्पद उच्यन्त इति प्रकरणक्रमः । तत्र राज्यं प्रथमसर्गे संज्ञया निर्दिष्टम् । पुनरिह स्वाम्याद्युपादानं पूर्वपूर्वप्राधान्यज्ञापनार्थम् । प्राधान्यं चतुर्दशे सर्गे वक्ष्यामः । परस्परोपकारि स्वेन स्वेन कर्मणा । ततश्चान्योन्यसहायमेतत् सप्तावयवं समुदायसाध्ये कर्मणि रथवत् प्रवर्तते ॥ १ ॥ तदेव व्यतिरेकेण दर्शयन्नाह --- एकाङ्गेनापीति । आशु परीक्षणं कुर्वीत, अन्यथा समुदायसाध्यं कार्यमतिपतेत् ॥ २ ॥ तत्रेश्वरप्रकृतेः प्रधानत्वात् स्वामिनमधिकृत्याह - आत्मानमित्यादि ॥ ३ ॥

किमर्थं पुनर्गुणयुक्तः स्यादित्याह - साधु भूतल देवत्वमित्यादि । यस्मात् पृथिवीतले देवो राजा, तस्य देवत्वं स्वामिसम्पत्, सा च लोके साधुर्भवति । सा चानात्मवद्भिर्दुःखेन धार्यते । तस्मात् स्वपरमण्डलकार्यहेतुत्वादात्मसंस्कारसम्पन्नो राजा भवितुमर्हतीति ॥ ४ ॥

१. 'तस्मात् सा' क. पाठः. २. 'स्य' क. पाठः,