पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] पष्ट प्रकरणम् ।४७ इति पथि विनिवेशितात्मनो

रिपुरपि गच्छति साधुमित्रताम् । 

तदवनिपतिमत्सरादृते विनयगुणेन जगद् वशं नयेत् ॥ ३९ ॥ क्व च नरपतिगर्वः सङ्ग्रहः क प्रजानां मधुरवचनयोगाल्लोकमभ्याददीत । मधुरवचनपाशैरायतालानितः सन् पदमपि हि न लोकः संस्थितेर्भेदमेति ॥ ४० ॥ ( इत्याचारव्यवस्थापनं नाम पष्ट प्रकरणम्)

इति कामन्दकीये नीतिसारे आचारव्यवस्थापनं नाम तृतीयः सर्गः ।

प्रकरणार्थानुष्ठानफलमाह - इतीत्यादिना । रिपुरपि किमुत स्वजनः साधुमिव्रताम् । तदिति तस्मात् । अवनिपतिमत्सरादृत इति । राज्ञो मात्सर्य गर्वः किमनेन संगृहीतेनेति, तदुपास्य । विनयगुणेन सद्वृत्तेन । वशं नयेत् स्वीकुर्यात् ॥ ३९ ॥ मात्सर्ययोगात् प्रजासंग्रहोऽनुपपन्न इति दर्शयन्नाह - क्व चेत्यादि । मधु- रवचनयोगात् सद्वृत्तादिति शेषः । सूनुतया वाचा युक्तादित्यर्थः । सद्वृत्तादिति वक्तव्ये मधुरवचनग्रहणं संग्रहोपायेषु सूनृता वाणी प्रधानमिति दर्शनार्थ, सर्वत्रोप- युज्यमानत्वादस्याः । पाशा इव पाशाः, मधुरवचनपाशैः सद्वृत्तैः । आयतालानितः अत्यर्थ सम्बद्धः । पदं स्तोकम् । न संस्थितेर्भेदमेति राज्ञि कृतावस्थानाः प्रजा न परैर्भिद्यन्त इत्यर्थः ॥ ४० ॥ ( इत्याचारव्यवस्थापनं नाम षष्ठं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायाम् आचारव्यवस्थापनं नाम तृतीयः सर्गः । १. 'रस्तमत्सरो वि' इति मूलकोशेषु पाठः,