पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे। स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः । नान्योपतापि वचनं मौनव्रतचरिष्णुता ॥ ३६ ॥ बन्धुभिर्बद्धसंयोगः सुजने चतुरश्रता । तच्चित्तानुविधायित्वमिति वृत्तं महात्मनाम् ॥ ३७ ॥

सनातने वर्त्मनि साधु तिष्ठता-

मयं हि पन्था गृहमेधिनां मतः ।

अनेन गच्छन् नियतं महात्मना -

मिमं च लोकं परमं च विन्दति ॥ ३८ ॥ 'एकार्थानर्थसम्बन्धमुपकार्यविकारि च । मित्रभावि भवत्येतन्मित्रमद्वैध्यमापदि " ॥ [ तृतीयः । गृहागते तस्मिन्नन्यस्मिन् वा सज्जने । परिष्वङ्गः सम्भाषणदिना । शक्त्या तस्मिन्नन्यस्मिन् वा समागते । सहिष्णुता लोकोपकोशादितितिक्षा ॥ ३५ ॥ अनुत्सेकः अविकारिता । (*भद्रं कल्याणम् ) । मौनव्रतचरिष्णुतेति वा- ताप्रतिषेधः ॥ ३६ ॥ बद्धसंयोग इति उपगमादिना बन्धुभिरविश्लिष्टः सम्बन्धः । सुजने चतु- ना अवक्रता । तच्चित्तानुविधायित्वं तन्मतेन प्रवृत्तिः । इति वृत्तं महात्मना - । एतत् सर्वं शिष्टानुमतत्वाद् विशिष्टफलयोगाच्च सदवृत्तमित्युच्यते ॥ ३७ ॥ तदेव दर्शयति-- सनातन इत्यादिना । स्वस्मिन् स्वस्मिन् मार्गे तिष्ठता- ते शिष्टतानुकथनम् । साध्विति तिष्ठतिक्रियाविशेषणम् । अयं पन्थाः यथोक्तं वृत्तम् । आश्रमाणामिति वक्तव्ये गृहमेधिनामिति वचनं प्राधान्यख्यापनार्थम् । हि "आश्रमाणां गृहस्थो योनिरप्रजनत्यादितरेषाम्” इति गौतमः । महात्मनां ॐ, नान्येषां क्षुद्राणां यस्मादिह लोकद्वयमपि सम्भवति । विन्दति ते ॥ ३८ ॥ १. 'ममुं च ' क. पाठः. २. 'णं श' च पाठः.

  • 'परभदेवमत्सर' इति चेत् पाठः, तदा 'भद्रं कल्याणम्' इति पदव्याख्यानमुपपन्नं स्यात्.