पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४४ कामन्दकीय नीतिसारे [ तृतीयः तीत्राप्युदेगकारीणि विसृष्टान्यशमात्मकैः । कृन्तन्ति देहिनां मर्भ शस्त्राणीव वचांसि च ॥ २५ ॥ प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च ।

शिखीव केकामधुरः प्रियवाक् कस्य न प्रियः ॥ २६ ॥ 

अलक्रियन्ते शिखिनः केकया मदरक्तया । वाचा विपश्चितोऽत्यर्थे माधुर्यगुणयुक्तया ॥ २७ ॥

मदरक्तस्य हंसस्य कोकिलस्य शिखण्डिनः ।
हरन्ति न तथा वाचो यथा साधु विपश्चितः ॥ २८ ॥ 

गुणानुरागी स्थितिमान् श्रदधानो दयान्वितः । धनं धर्माय विसृजेत् प्रियां वाचमुदीरयन् ॥ २९ ॥

ये प्रियाणि च भाषन्ते प्रयच्छन्ति च सत्कृतम् । 

श्रीमन्तो वन्द्यचरणा देवास्ते नरविग्रहाः ॥ ३० ॥ विसृष्टानि प्रयुक्तानि । अशमात्मकैः तीक्ष्णैः ॥ २५ ॥

द्विषत्सु चेति । तेऽपि तथा विश्वासिताः सूच्छेदा भवन्ति, नापकुर्वन्ति वा । के कामधुरः केकाशब्देन हृद्यः ॥ २६ ॥

मदरक्तया मदकलयेत्यर्थः । विपश्चितो विद्वांसः ॥ २७ ॥ • यथा साध्विति । यथा शोभनं हरन्ति वाच इति सम्बन्धः ॥ २८ ॥

दानमधिकृत्याह - गुणानुरागीत्यादि । दानस्य वागण्यङ्गामति तदनन्तरं दाननिर्देशः । अयं श्रोत्रियो वेदपारगो वेति गुणानुरागी । स्थितिमान् स्वयमप्याचारवान्, अन्यथा स्वाचारभ्रष्टादस्मात् कः प्रतिगृह्णीयात् । श्रद्दधानः श्रद्धापूर्वकं हिं दीयमानमुत्कृष्टफलं भवति । दयान्वित इति गुणरहितेष्वपि दीनेषु विसृजेदिति दर्शयति । प्रियां वाचमुदीरयन्निति । तया वाचा, यया प्रतिग्रहीता तुष्यति । एवञ्चोभयानुग्राहित्वाल्लोके देववद् वन्द्यते ॥ २९ ॥

यदाह --- ये प्रियाणीत्यादि । सत्कृतं पूजापूर्वकम् ॥ ३० ॥ १. 'ताम् । क. पाठः. २. ‘येत्' ख-ग. पाठः. ३. 'तिम्' ख.ग. पाठः ४. 'ति । प्रिं' क ख ग घ ङ. पाठः