पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] षष्ठं प्रकरणम् । नीयते स्वच्छहृदयैः पिण्डो येनैव पाणिना । मार्जार इव दुर्वृत्तस्तमेव हि विलुम्पति ॥ १९ ॥

असाध्यें साधुमन्त्राणां तीव्रं वाग्विषमुत्सृजेत् । 

द्विजिह्वं वदनं धत्ते दुष्टो दुर्जनपन्नगः ॥ २० ॥ क्रियतेऽभ्यर्हिणीयाय सुजनाय यथाञ्जलिः । ततः साधुतरः कार्यों दुर्जनाय शिवार्थिना ॥ २१ ॥

ह्लादिनीं सर्वसत्त्वानां सम्यग् जनजिहीर्षया । 

भावयेत् परमां मैत्री विसृजेल्लौकिकी गिरम् ॥ २२ ॥

नित्यं मनोपहारिण्या वाचा प्रह्लादयेज्जनम् । 

उद्वेजनीयो भवति क्रूरवागर्थदोऽपि सन् ॥ २३ ॥ हृदि विद्ध इवात्यर्थ यया सन्तप्यते जनः । पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत् ॥ २४ ॥ दुर्जनास्तु प्रतिक्षणं दहन्ति ॥ १८ ॥ तमेव विलुम्पतीति कृतघ्नतां दर्शयति ॥ १९ ॥ ४३ असाध्यं वाग्विषर्मुत्सृजद् वदनमिति सम्बन्धः । साधुमन्त्राणां सामोक्तीनाम् । द्विजिह्वं वदनं धत्त इति सूचकतामाह ॥ २० ॥ . क्रियत इत्यादि । अभ्यर्हणीयाय पूजनीयाय । ततः साधुतरः कार्य इति साम्नैव साध्यो दुर्जन इति दर्शयति ॥ २१ ॥ . सूनृतां वाचं सप्तभिः श्लोकैर्निर्दिशति - ह्रादिनीमित्यादि । जनजिहीर्षया लोकं हर्त्तुमिच्छया । भावयेन्मैत्रीमुत्पादयेत् । लौकिकीं व्यावहारिकीम् ॥ २२ ॥

क्रूरवाक् परुषवाक् ॥ २३ ॥

पीडितोऽपि दुःखाभिभूतोऽपि न परुषवाक् स्यात् ॥ २४ ॥ १. 'दी' क. पाठः २. ‘ध्यः' ख-ग. पाठः ३. 'जन्' इति मूलकोशेषु पाठः ४. धू- क्षया' ख-ग. पाठः. ५. 'गत् । क. पाठः. ६. 'मुद्रमत्' च पाठः,