पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४२ कामन्दकीय नीतिसारे [ तृतीयः जगन्मृगतृषा तुल्यं वीक्ष्येदं क्षणभङ्गुरम् ।

सुजनैः सङ्गतिं कुर्याद्धर्माय च सुखाय च ॥ १३ ॥
सेव्यमानस्तु सुजनैर्महानतिविराजते ।

सुधालिप्त इव श्रीमान् प्रासादश्चन्द्ररश्मिभिः ॥ १४ ॥

हिमांशुमाली न तथा नोत्फुल्लकमलं सरः । 

आनन्दयति चेतांसि यथा सज्जनचेष्टितम् ॥ १५ ॥

ग्रीष्मे सूर्याशुसन्तप्तमुद्देजनमनाश्रयम् । 

मरुस्थलमिवोदग्रं त्यजेद् दुर्जनसंश्रयम् ॥ १६ ॥

श्रुतशीलोपसम्पन्नमकस्मादेव दुर्जनः ।

अन्तः प्रविश्य दहति शुष्कं वृक्षमिवानलः ॥ १७ ॥

निःश्वासोद्गीर्णहुतभुग्धूम धूम्रीकृताननैः । 

वरमाशीविषैः सङ्गं कुर्यान्नत्वेव दुर्जनैः ॥ १८ ॥ सत्सङ्गतं त्रिभिः श्लोकैर्निर्दिशति - जगदित्यादि । मृगतृषा मृगतृष्णया तुल्यं, क्षणभङ्गुरत्वात् । धर्माय च सुखाय चेति चशब्दादर्थाय च ॥ १३ ॥ तदेव दर्शयन्नाह - - सेव्यमान इत्यादि । विराजत इति धर्मार्थोपचितः । सुजनैर्हि धर्मार्थोपदेशदायिभिः सेव्यमानस्य धर्मार्थोपचयोपपत्तेः । अन्यथा तत्सेवामात्रेण कथं विविधप्रकारेण दीप्यते । न हि चन्द्ररश्मिभिरनुपक्रियमाणः सौधः प्रासादो भाति ॥ १४ ॥ आनन्दयति सुखयति ॥ १५ ॥ इदानीं सुजनसङ्गतदार्ढ्यार्थ दुर्जनसङ्गतदोषं षड्भिः श्लोकैर्निर्दिशति- ग्रीष्मेत्यादि । उदग्रं महत् । मरुस्थलविशेषणमेतत् ॥ १६ ॥ अन्तः प्रविश्य दहति, ममवघट्टनात् ॥ १७ ॥ वरमाशीविषैः सङ्गमिति । ते हि तदानीमेव भस्मसात् कुर्वन्ति, १. 'ङ्गतं कार्य धर्मा' क. पाठः २. 'ष्मे' ख ग पाठः ३. 'गतम् ' क. पाठः. ४. 'सवः शीलोपसम्पन्नानक' ख-ग. पाठः. ५. 'ष्कान् वृक्षानिवा' ख ग पाठः ६. 'कुर्यात् सङ्गतं नैव' क. पाठः. ७. 'चयः ।' क ख ग घ ङ. पाठः. ८. 'ध्म इत्या' घ. पाठः. ९. 'संघ' घ. पठ.. १०. निःश्वासेत्यादि । वरमाशीविषैः सङ्गतम् । ते' क ख ग घ ङ. पाठः.