पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] षष्ठं प्रकरणम् । को हि नाम कुले जातः सुखलेशोपलोभितः । अल्पसाराणि भूतानि पीडयेदविचारयन् ॥ ८ ॥

आधिव्याधिपरीताय अद्य श्वो वा विनाशिने । 

कोहि नाम शरीराय धर्मापेतं समाचरेत् ॥ ९ ॥ आहार्यैनियमानं हि क्षणं दुःखेन हृद्यताम् ।

छायामात्रकमेवेदं पश्येदुदकबिन्दुवत् ॥ १० ॥ 

महावाताहतिभ्रान्तमेघमालातिपेलवैः । कथं नाम महात्मानो ह्रियन्ते विषयारिभिः ॥ ११ ॥

जलान्तश्चन्द्रचपलं जीवितं खलु देहिनाम् । 

तथाविधमिति ज्ञात्वा शश्वत् कल्याणमाचरेत् ॥ १२ ॥ ४ १ को हि नाम कुले जात इति । अनभिजातस्यायं धर्मः, यत् कृपणपीडनमिति भावः । अल्पसाराणि कृपणानि । अविचारयन्निति । यद्यपराधं प्राप्नोति, तदा यथापराधं पीडयेदेव, राज्ञो व्यवस्थाकारित्वात् ॥ ८ ॥ यस्य च शरीरस्य कृते कृपणपीडनं, तद् दोषबहुत्वादस्थिरमित्याह --आधीत्यादि । आधिः इष्टवियोगादिप्रभवा चित्तपीडा । धर्मापेतम् अविचार्य कृपण- पीडनम् ॥ ९ ॥ यदापि संस्कारैर्हृद्यतां नीयते, तदापि बहिः शोभामात्रमस्येत्याह-- आहार्यैरिति स्नानानुलेपनादिभिः । क्षणमिति क्षणमात्रं हृद्यतां नीयमानम् । दुःखेन प्रयासेन । छायामात्रकमिदं शरीरं पश्येद्, अतितुच्छत्वाद् जलबुद्बुदवत् । तस्मात् तदर्थे दुर्बलं न पीडयेदिति भावः ॥ १० ॥ किञ्च विषयैः प्रेर्यमाणा अल्पसत्त्वा एव कृपणं पीडयन्ति, नेतर इत्याह - महावातेत्यादि । महतो वातस्याहननेन भ्रान्ता या मेवमाला तद्वदति- लवैः अचिरस्थायिभिः कथं ह्रियन्ते यद्धर्मापेतमाचरिष्यन्ति ॥ ११ ॥ तस्मान्महात्मा राजा जीवितमनित्यं ज्ञात्वा दीनमुपगतं रक्षेदित्याह --ज- लान्तरित्यादि । देहिनां जीवितं जलान्तश्चन्द्रचपलामेति ज्ञात्वेति सम्बन्धः । तथाविधं कल्याणमाचरेद् दीनोपगतरक्षणं कुर्यादित्यर्थः ॥ १२ ॥ १. 'नानाद्यैन' क. पाठः. २. 'हुलत्वा' ग-घ. पाठः. ३. 'स्नानाद्यैरि' च. पाठः.