पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [ तृतीयः आविष्ट इव दुःखेन तद्गतेन गरीयसा ।

समन्वितः करुणया परया दीनमुद्धरेत् ॥ ३ ॥ 

न तेभ्योऽभ्यधिकाः सन्ति सन्तः सत्पुरुषव्रताः । दुःखपङ्कार्णवे मग्नं दीनमभ्युद्धरन्ति ये ॥ १ ॥ दयामास्थाय परमां धर्मादविचलन् नृपः ।

पीडितानामनाथानां कुर्यादश्रुप्रमार्जनम् ॥ ५ ॥ 

आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः । तस्माद् राजानृशंस्येन पालयेत् कृपणं जनम् ॥ ६ ॥

न हि स्वसुखमन्विच्छन् पीडयेत् कृपणं नृपः ।
कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवम् ॥ ७ ॥

इदानीमपि सद्वृत्तस्य कार्यानुष्ठापनेद्वारेण व्यवस्थापनमुच्यते । तत्र प्राधान्याद् दयामधिकृत्याह - आविष्ट इत्यादि । परवश इव तदुःखदुःखितत्वात् । परया प्रकृष्टया, यद्वशाद् दीनं दुःखार्णवादुद्धरेत् ॥ ३ ॥ - तदेव प्राधान्यं कार्यद्वारेण दर्शयन्नाह न तेभ्य इति । अन्यैः सद्वृत्तैर्युक्ता अपि न तेभ्योऽधिकाः दीनोद्धरणाभावात् ॥ ४ ॥ -- तस्मादात्मानमधिकमिच्छन्नुत्कृष्टां दयामास्थाय दीनमुद्धरेदिति स्थिरीकुर्वन्नाह — दयामित्यादि । धर्मादिति । यस्मिन् वर्ण आश्रमे वा स्थितः, तस्माद्धर्मादविचलन् । पीडितानामश्रु दुःखं, कार्ये कारणोपचारात्, तस्य प्रमार्जनम् अपनयनम् ॥ ५ ॥ इतरां दयामधिकृत्य दीनोपगतरक्षणं सप्तभिः श्लोकैर्निर्दिशति - आनृशंस्यमित्यादि । आनृशंस्यं करुणा । सा चानुत्कृष्टापि परो धर्मः, परहितप्रवृत्तेर्दुर्लभत्वात् । पालयेत् कृपणं जनम् । उपगतमिति शेषः ॥ ६ ॥ न तु स्वसुखलोभात् पीडयेद्, दोषवत्त्वादित्याह - न हीत्यादि । मन्युना दुःखप्रभवेन क्रोधेन ॥ ७ ॥ १. 'नमु' ग घ पाठः.