पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ तृतीयः सर्गः ।

  • ६ आचारव्यवस्थापनप्रकरणम् *

दण्डं दण्डीव भूतेषु धारयन् धरणीसमः ।

प्रजाः समनुगृह्णीयात् प्रजापतिरिव स्वयम् ॥ १ ॥
वाक् सूनृता दया दानं दीनोपगतरक्षणम् ।

इति सङ्गः सतां साधु हितं सत्पुरुषव्रतम् ॥ २ ॥ पगच्छन्तीत्यर्थः । प्राप्तमार्गप्रचारा इति । मार्ग आयद्वारम् । स हि प्रजानियमनेन निर्विबन्धो भवति । तत्र प्राप्तो मार्गप्रचार आभिरिति विग्रहः ॥ ४४ ॥ (इति दण्डमाहात्म्यं नाम पञ्चमं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीय नीतिसारपञ्चिकायां जयमङ्गलायां विद्याविभागवर्णाश्रमव्यवस्थादण्डमाहात्म्यानि नाम द्वितीयः सर्गः । एवं भूतेषु दण्डं धारयन् प्रजाः समनुगृह्णीयाद्, यथैताः प्रजापतिमिव राजानमभिमन्यन्ते । तस्मात् तत्संग्रहार्थमाचारव्यवस्थापनमस्मिन् सर्गेऽभिधीयत इति प्रकरणक्रमः । तमेवाद्यश्लोकेन दर्शयति -- दण्डमित्यादि । धरणीसमः शत्रौ मित्रे च तुल्यवृत्तित्वात् ॥ १ ॥ आचारः सद्वृत्तम् । किं तदित्याह - वागित्यादि । सूनृता मधुरी वाक् । दया करुणा दीनेषु । दानं देशकालापेक्षया सत्पात्रे । दीनोपगतरक्षणं दीनस्याश्रितस्य च पालनम् । ननु तद् दयाकार्यत्वात् तयैव सिद्धम् । सत्यम् । दयाया द्वैविध्यज्ञापनार्थम् । दया ह्युत्कृष्टानुत्कृष्टा च । तत्र या पूर्वा तया दीनोद्धरणम्, इतरया दीनोपगतरक्षणम् । इति सङ्गः सतामिति । सुजनसङ्गम इत्यर्थः । इतिशब्दः पश्चात् सम्बन्धनीयः । एतच्चतुर्विधं पञ्चविधं वा सद्वृत्तं प्रजासंग्रहोपायः । तच्च साधु तदात्वे लोकेन प्रशस्यमानत्वात् । हितम् आयत्यामभ्युदयफलत्वात् ॥ २ ॥ १. 'वा' क-ख. पाठः.