पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३८ कामन्दकीय नीतिसारे [ द्वितीयः सर्गः ] नियतविषयवर्ती प्रायशो दण्डयोगा- ज्जगति परवशेऽस्मिन् दुर्लभः साधुवृत्तः । कृशमर्थ विकलं वा व्याधितं वाधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति ॥ ४३ ॥ इति परिगणितार्थः शास्त्रमार्गानुसारी नियमयति यतात्मा यः प्रजा दण्डनीत्या | अपुनरपगमाय प्राप्तमार्गप्रचाराः सरित इव समुद्रं सम्पदस्तं विशन्ति ॥ ४४ ॥ (इति दण्डमाहात्म्यं नाम पञ्चमं प्रकरणम् ) इति कामन्दकीय नीतिसारे विद्याविभागवर्णाश्रमव्यवस्थादण्डमाहात्म्यानि नाम द्वितीयः सर्गः । तत्र यद्यपि कश्चित् स्वमार्गे दण्डमन्तरेण प्रतिष्ठते, तथापि न प्रायश इति दर्शयन्नाह - नियतविषयवर्तीत्यादि । परवशे विषयवशीकृते । दुर्लभः साधुवृत्तः, यो दण्डं विना स्यात् । यथा कुलनारी कृशत्वादिदोषयुक्तं पतिमनिच्छन्त्यपि दण्डभीत्योपयन्ती नातिक्रामन्ती दृश्यते । विकलं हीनाङ्गम् ॥ ४३ ॥ प्रकरणानुष्ठाने फलमाह -- इति परिगणितार्थ इत्यादि । एवं तीक्ष्ण- मृदुमध्यमप्रयोगेणाप्रयोगेण च विभक्तदण्डार्थः । शास्त्रं मानवादि, तन्मार्गानुसारी । तद् यथा – अयं वध्यः, अयं परिक्लेश्यः, अयमर्थ हर्तव्यश्चेति । नियमयति स्व- मार्गे स्थापयति । यतात्मा जितेन्द्रियः । अपुनरपगमाय नित्यस्थितत्वे न पुनर- १. 'पि' क. पाठः. २. 'राज्य' खग, पाठः ३. 'तये न' घ. पाठः,