पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] पञ्चमं प्रकरणम् । ३७ त्रिवर्ग वर्धयत्याशु राज्ञो दण्डो यथाविधि ।

प्रणीतोऽथासमञ्जस्याद् वनस्थानपि कोपयेत् ॥ ३८ ॥
लोकशास्त्रानुगो नेयो दण्डोऽनुद्वेजनः श्रिये ।
उद्वेजनादधर्मः स्यात् तस्माद् ध्वंसो महीपतेः ॥ ३९ ॥

परस्परामिषतया जगतो भिन्नवर्त्मनः । दण्डाभावे परिध्वंसी मात्स्यो न्यायः प्रवर्तते ॥ जगदेतन्निराक्रन्दं कामलोभादिभिर्बलात् । निमज्ज्यमानं निरये राज्ञ दण्डेन धार्यते ॥ ४१ ॥

इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् ।
सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयोपपीडितम् ॥४२॥

यदाह - त्रिवर्ग वर्द्धयतीति । यथाविधि प्रणीतो यथान्यायप्रवृत्तः । अ- थासमञ्जस्यादिति । यदि कामक्रोधाज्ञानादिभिर्न सम्यक् प्रवृत्तः स्यात्, तदा- वानप्रस्थानपि कोपयेत्, किं पुनर्गृहस्थान् ॥ ३८ ॥ । यथाविधि प्रणयनं च लोकशास्त्रानुगमात् । यदाह -- लोकशास्त्रानुगो नेय इति । नेयः प्रयोज्यः । स ह्यनुद्वेजनीयत्वाच्छ्रिये भवति । उद्वेजनः पुनर- श्रिये इत्यर्थोक्तम् । अधर्मश्चोद्वेजनात् । तस्माद् ध्वंस इति । अनुद्वेजनाद् धर्मश्च भवतीत्यर्थोक्तम् ॥ ३९ ॥ दण्डस्याप्रणये दोषमाह - परस्परामिषतयेति । अन्योन्यभक्ष्यत्वेन । भिन्नवर्त्मनः उच्छिन्नस्वधर्मकर्मणः । परिध्वंसी मात्स्यो न्याय: बलवता यदबलग्रसनम् ॥ दण्डमाहात्म्यमाह - जगदित्यादि । निराक्रन्दं निराश्रयम् । कामलोभादिभिः अरिषडुर्गैः । निरये नरके | निमज्ज्यमानं निपात्यमानम् । दण्डेन धार्यंते स्वमार्गे प्रतिष्ठाप्यमानत्वात् ॥ ४१ ॥ तदेव दर्शयन्नाह-- इदमित्यादि । सनातन इति स्वस्मिन् स्वस्मिन् मार्गे । प्रतिष्ठते प्रवर्तते ॥ ४२ ॥ १. 'ज्ञा' क ख पाठः. २. 'वा' क. पाठः. ३. 'भ्रंशो म' क. ५. 'यातिपी' ग. पाठः, 'यादिपी' ख. पाठः. साध्यते' क. पाठः. ७. 'यै' क ख घ, पाठः. पाठः. ४. 'ज्ञो दण्डेन ६. 'यै' क-ख घ. पाठः.