पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३६ कामन्दकीय नीतिसारे [द्वितीयः वर्णाश्रमाचारयुतो वर्णाश्रमविभागवित् । पाता वर्णाश्रमाणां च पार्थिवः स्वर्गलोकभाक् ॥ ३५ ॥ ( इति वर्णाश्रमव्यवस्था नाम चतुर्थे प्रकरणम् ) ५ दण्डमाहात्म्य प्रकरणम् * इति यस्मादुभौ लोकौ धारयत्यात्मवान् नृपः । प्रजानां च ततः सम्यग् दण्डं दण्डीव धारयेत् ॥ ३६ ॥

उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।

दण्डेन नृपतिस्तस्माद् युक्तदण्डः प्रशस्यते ॥ ३७ ॥ प्रकरणार्थस्यानुष्ठाने अनुष्ठापने च राज्ञः फलमाह ---- वर्णाश्रमाचारयुत इति । यस्मिन् वर्णे आश्रमे वा स्थितः स तदाचारयुतः । वर्णाश्रमविभागविद्, अन्यथा कथं पाता स्यात् । स्वर्गलोकभाग् इहलोकभाक्त्वं सामर्थ्यलभ्यमेवेति ॥ ३५ ॥ (इति वर्णाश्रमव्यवस्था नाम चतुर्थ प्रकरणम् ) अथ दण्डमाहात्म्यमुच्यते । तस्य सम्बन्धमाह - इतीति । एवं वर्णाश्रमान् व्यवस्थापयन्नुभौ लोकावात्मनः प्रजानां चेति सम्बन्धः । धारयति दण्डेनेत्यर्थः । दण्डीव धारयेत् । प्रजा हि यमस्थाने दण्डधरं राजानं मन्यमाना भया - न्नापराध्यन्तीति । स च दण्डो वधबन्धपरिक्लेशार्थहरण लक्षणस्तीक्ष्णमृदुमध्यम- भेदेन त्रिविधः ॥ ३६ ॥ तत्र उद्वेजयति तीक्ष्णेन दण्डेन लोकमतिनिग्रहेणेत्यर्थः । दमनमात्रवृत्तिनापि दण्डेन अतिसाम्ना अतिदानेन अतिभेदेन अतिनिग्रहेण वा लोकमुद्वेजयति । मृदुना हेतुभूतेन परिभूयते, लोकेनेति शेषः किमयं सान्त्वयिष्यति, किं दास्यति, किं भेदयिष्यति, किं निग्रहीष्यतीति । युक्तदण्डः प्रशस्यते आत्मप्रजयोस्त्रिवर्गवर्द्धनात् ॥ ३७ ॥ १. 'त्रा' ख.ग. पाठ:. २. ' इति । एवं वर्णाश्रमाचारव्यवस्था । य' ग-घ. पाठः.