पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] चतुर्थी प्रकरणम् । सर्वेन्द्रियसमाहारो धारणा ध्यानयुक्तता ।

भावसंशुद्धिरित्येष परिब्राड्धर्म उच्यते ॥ ३१ ॥ 

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा । वर्णिनां लिङगिनां चैव सामान्यो धर्म उच्यते ॥ ३२ स्वर्गानन्त्याय धर्मोऽयं सर्वेषां वर्णिलिङ्गिनाम् । अस्याभावे तु लोकोऽयं सङ्करान्नाशमाप्नुयात् ॥ ३३॥ सर्वस्यास्य यथान्यायं भूपतिः सम्प्रवर्तकः ।

तस्याभावे धर्मनाशस्तदभावे जगच्च्युतिः ॥ ३४ ॥

सर्वेन्द्रियसमाहारः अलोलुपेन्द्रियत्वम् । धारणा मनसो निरोधः । ध्यानं ध्येयविषयावलम्बनम् । भावसंशुद्धिः अविचिकित्सा ॥ ३१ ॥ विशेषमुक्वा सामान्यधर्ममाह - अहिंसेत्यादि । अहिंसा शास्त्रविधानादन्यत्र । सूनृता वाणी अपरुषा । दया दीनेषु । क्षमा आक्रोशादितितिक्षा । लिङ्गिनाम् आश्रमिणाम् ॥ ३२॥ यथोक्तस्य धर्मस्य फलमाह --- स्वर्गानन्त्यायेति । सर्वेषामेव वर्णिनां लिङ्गिनां यथायोगं कश्चित् स्वर्गीय, कश्चिदानन्त्याय, न विद्यते अन्तोऽस्येत्य- नन्तो मोक्ष उच्यते, स्वार्थिकः ष्यञ्, स्वर्गस्यान्तवत्त्वात् । अस्य धर्मस्याभावे न केवलं फलाभावः, प्रत्युत सङ्करान्नाशमाप्नुयात् । तत्र सङ्करो द्विविधः, कर्मसङ्करो वर्णसङ्करश्च । तत्र पूर्वः शूद्रस्य द्विजकर्म, द्विजस्यापि शूद्रकर्मेत्यादि । इतरोsपि प्रातिलोम्येनाभिगमनम् ॥ ३३ ॥ यथान्यायं यथार्हम् । सम्प्रवर्त्तकः दण्डधारितया । तस्याभावे धर्मनाश इति भूपतेरभावे यजनादिधर्मनाशः । तदभावे जगच्च्युतिः । तथाहि "लोकधारणाद् धर्म” इति निरुच्यते ॥ ३४ ॥ १. 'वर्णा' ग. पाठः. २. 'ण' ख. पाठः. ३. 'त' ख.ग. पाठः. ४. 'सर्वना' ख ग. पाठ.. ५. 'धनम् । ध्या' पाठः.