पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [ द्वितीयः देवपित्रतिथिभ्यश्च पूजा दीनानुकम्पनम् ।

श्रुतिस्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः ॥ २६ ॥
जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम् ।
वनेवासः पयोमूलनीवारफलवृत्तिता ॥ २७ ॥
प्रतिग्रहनिवृत्तिश्च त्रिःस्नानं व्रतचारिता ।

देवातिथीनां पूजा च धर्मोऽयं वनवासिनः ॥ २८ ॥

सर्वारम्भपरित्यागो भैक्षाश्यं वृक्षमूलिता । 

निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥ २९ ॥ प्रियाप्रियापरिष्वङः सुखदुःखाविकारिता । सबाह्याभ्यन्तरं शौचं वाग्यमो व्रतचारिता ॥ ३० ॥ देवपित्रतिथिभ्यश्च पूजां कृत्वा कृतद्रव्यविनियोगेन । श्रुतिस्मृत्यर्थसंस्थानमिति । श्रुतिस्मृतिविहिते कर्मण्यवस्थानं, न पाषण्डसिद्धान्तविहिते । गृहमेधिनः गृहस्थस्य, गृहे सतो यज्ञशलित्वात् ॥ २६ ॥ भूशय्या अनास्तरणायां भूमौ शयनम् । अजिनं मार्ग वैयाघ्रं वा । वनेवासः, न ग्रामे । पयो जलम् । नीवारः अकृष्टपच्यो व्रीहिः ॥ २७ ॥ व्रतचारितेति । तस्यापत्ये सङ्क्रमितगार्हस्थ्यधर्मस्य सपत्नीकत्वेऽपि ब्रह्मचर्यम् । तथाहि “पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा" इति स्मृतिः । वनवासिनः वानप्रस्थस्य ॥ २८ ॥ । सर्वारम्भपरित्याग इति । सर्वासां यागादिक्रियाणामाश्रमधर्मातिरिक्तानामननुष्ठानम् । भैक्षाश्यं भिक्षाहारत्वम् । वृक्षमूलिता अरण्यवासः । निष्परिग्रहता प्रव्रज्योपकरणव्यतिरिक्तानुपादानम् । अद्रोहः अजिघांसा । समता सर्वभूतेषूत्कृष्टे- ष्वपकृष्टेषु च ॥ २९ ॥ प्रियाप्रियापरिष्वङ्गः इष्टानिष्टसङ्गत्यागः । सुखदुःखाविकारिता हर्षशोकाभावात् । बाह्यं शौचं मृदादिभिर्लेप (?) गन्धापनोदनार्थममेध्यस्य, आभ्यन्तरं मनःशौचम् । वाग्यमो मौनम् ॥ ३० ॥ १. 'तू' क. पाठः २. 'वतातिथिपू' ख-ग. पाठः ३. 'नाम् ' ग. पाठः ४. 'र' क. पाठः. ५. 'ब्रह्मा' क, पाठ:: ६. 'नार्थ चामे' क ख ग घ ङः पाठः,